SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सटिप्पणा ||खोपत्र वृत्तिः ॥ गाथा-११ ॥५५॥ त्वमोहनीयानन्तानुबन्धिनां प्रबलबोधविपर्यास कारिणां प्रबलक्रियाविपर्यासकारिणां च तृतीयकषायादीनामभावात् । मिथ्यादृशां संशधर्मपरीक्षा यानध्यवसाययोश्च न तथात्वं युक्तम्, विपर्यासशक्तियुक्तत्वात्तेषाम् । अतः शुभपरिणामोऽपि तेषां फलतोऽशुभ एवोक्तः श्रीहरिभ५५॥ द्रसूरिभिः । तथाहि-"गलमच्छ-भवविमोअग-विसन्नभोईण जारिसो एसो। मोहा सुहोवि असुहो, तप्फलओ एवमेसोत्ति ॥१॥" | गलेत्यादि । गलो नाम प्रान्तन्यस्तामिषो लोहमयः कण्टको मत्स्यग्रहार्थं जलमध्ये संचारितः, तद्ग्रसनप्रवृत्तो मत्स्यस्तु प्रतीत एव । | ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यःभिवाद-दुःखबहुलकुयोनिलक्षणाद दुःखितजीवान् काकशृगालपिपीलिकादीन् तथाविधकुत्सितवचनसंस्कारात्प्राणव्यपरोपणेन मोचयत्युत्तारयतीति भवविमोचकः-पाखण्डविशेषः । विषेण मिश्रमन्नं तद् भुङ्क्ते तच्छीलश्च यः स तथाविधः । ततो गलमत्स्यश्च भवविमोचकश्च विषान्नभोजी चेति द्वन्द्वः, तेषां यादृश एष परिणामः प्रत्यपायफल एव । कुतः ? मोहादज्ञानात्पर्यन्तदारुणतया शुभोपि-स्वकल्पनया खरुचिमन्तरेण तेषां तथाप्रवृत्तरयोगात्सुन्दरोपि सन्, अशुभः संक्लिष्ट एव । कुतः ? इत्याह-तत्फलतः-भावप्रधानत्वाद् निर्देशस्य तत्फलत्वाद् अशुभपरिणामफलत्वाद् । अथ प्रकृते योजयन्नाह एवं गलमत्स्थादिपरिणामवत्, एषोऽपि जिनाज्ञोल्लङ्घनेन धर्मचारिपरिणामः तत्फलत्वादशुभ एव, आज्ञापरिणामशून्यतयोभयत्रापि Pसमानत्वेन तुल्यमेव किल फलम्" इति ।। १० ।। एतदाशङ्कायामाह मज्झत्थत्तं जायइ, जेसि मिच्छत्तमंदयोएवि । ण तहा असप्पवित्ती, सदंधणाएण तेसिपि ॥ ११ ॥ [मध्यस्थत्वं जायते येषां मिथ्यात्वमन्दतयाऽपि । न तथाऽसत्प्रवृत्तिः सदन्धज्ञातेन तेषामपि ॥ ११ ॥] मज्झत्थतंति । मध्यस्थत्वं रागद्वेषरहितत्वं, जायते येषां मिथ्यात्वमन्दतयापि, किंपुनस्तत्क्षयोपशमाद् इत्यपिशन्दार्थः। -CAGARGAHRECALS)
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy