________________
-CG
सटिप्पणा ॥ खोपन
चिः ॥ * गाथा-१.
| ॥५४॥
[अनामिग्रहिकादीनामपि आशयभेदेन भवन्ति बहुमेदाः । लघुनि त्रीणि फळतो एतेषु द्वे गुरुणी ॥१०॥] धर्मपरीक्षा | अणभिग्गहिआईणवित्ति। अनामिग्रहिकादीनामपि मिथ्यात्वानाम्, आशयभेदेन परिणामविशेषेण, बहवो भेदा भवन्ति । ॥५४॥ | तथाहि-अनामिग्रहिकं किंचित्सर्वदर्शनविषयम्-यथा 'सर्वाणि दर्शनानि शोभनानि' इति । किंचिद्देशविषयम्-यथा 'सर्व एव श्वेता
|म्बरदिगम्बरादिपक्षाः शोभनाः' इत्यादि । आभिनिवेशिकमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधम्-जमालिगोष्ठामाहिलादीनाम्। उक्तं च व्यवहारभाष्य-"मइभेएण जमाली, पुचि बुग्गाहिएण गोविंदो । संसग्गीए भिक्खू , गोट्ठामाहिल अहिणिवेसत्ति ॥१॥" इति[मतिभेदेन जमालिः पूर्व व्युग्राहितेन गोविन्दः। संसर्गाद् भिक्षुर्गोष्ठामाहिल अभिनिवेशादिति॥] सांशयिकमपि सर्वदर्शन-जैनदर्शनतदेकदेशपदवाक्यादिसंशयभेदेन बहुविधम् । अनाभोगोऽपि सर्वांशविषयाध्यक्तबोधस्वरूपो विवक्षितकिंचिदंशाव्यक्तबोधस्वरूपश्चेत्यनेकविधः । न खलु महामोहशैलूपस्यैको नर्तनप्रकारोऽस्तीति । एतेष्वाभिग्रहिकादिषु मिथ्यात्वेषु मध्ये, त्रीण्यनाभिग्रहिकसां. शयिकानाभोगरूपाणि, फलतः प्रज्ञापनीयतारूपं गुरुपारतन्त्र्यरूपं च फलमपेक्ष्य, लघूनि, विपरीतावधारणरूपविपर्यासव्यावृत्तत्वेनैतेषां क्रूरानुबन्धफलकत्वाभावात् ।द्वे आभिग्रहिकाभिनिवेशलक्षणे मिथ्यात्वे, गुरू (रुणी) विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वात् । | उक्तं चोपदेशपदे-"एसो अ एत्थ गुरुओ, णाणज्झवसायसंसया एवं । जम्हा असप्पवित्ती, एत्तो सव्वत्थणत्थफला ॥१॥" [[ एष चात्र गुरु नध्यवसायसंशयावेवम् । यस्मादसत्प्रवृत्तिरितः सर्वत्रानर्थफला || ] दुष्प्रतीकारोऽसत्प्रवृत्तिहेतुत्वेनैव विपर्यासोऽत्र गरीयान् दोषः, न त्वनध्यवसाय-संशयावेवंभृतौ, अतत्त्वाभिनिवेशाभावेन तयोः सुप्रतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्यार्थः॥ नन्वत्र मापतुपादीनां चारित्रिणामेव संशयानध्यवसाययोरसत्प्रवृत्त्यननुबन्धित्वमुक्तम्, तच युक्तम्, तेषां मिथ्या
+ACACASSAKC SCIES