SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ RECRUAE%E0 | सटिप्पणा स्वोपज्ञ वृत्तिः ॥ गाथा-१० सामान्यापेक्षया तदसिद्धेः, व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वं चानादिसूक्ष्मनिगोदानियतव्यवहारित्वाभिमुखजीवानां निर्गधर्मपरीक्षा मान्नानुपपन्नम् । आवलिकासंख्येयभागपुद्गलपरावर्तमानत्वेन व्यावहारिकाणां सर्वेषां सिद्ध्यापत्तिस्तु स्यात् । तत्रामव्यस्य व्यावहारि ॥५३॥ कत्वानुरोधेन निगोदत्वेन तिर्यक्त्वनपुंसकत्वादिना च कायस्थितिप्रतिपादकानां सूत्राणां व्यावहारिकविशेषविषयत्वं वा कल्पनीयम्, अन्यो वा कश्चित्मूत्राभिप्राय इत्यत्र बहुश्रुता एव प्रमाणम् । अवश्यं च सूत्राभिप्रायः कोऽपि मृग्यः, अन्यथा बहवो भव्यास्तावदेतालवतः कालासिध्यन्ति, अन्ये तु स्वल्पात,अपरे तु स्वल्पतरात्, यावत्केचिन्मरुदेवीस्वामिनीवत्स्वल्पेनैव कालेन सिध्यन्ति । अभव्यास्तु | कदाचिदपि न सिध्यन्ति, भवभावनावृत्त्यादिवचनादभव्यानां भव्यानां च यदुक्ताधिकसंसारभेदभणनं तन्नोपपद्येत । यत्तु परे णोक्तम्-यत्तु क्वचिदाधुनिकप्रकरणादो प्रज्ञापनाद्यागमविरुद्धानि वचनानि भवन्ति, तत्र तीर्थान्तरवर्तिनामसद्ग्रहाभावादनाभोग | एव कारणम् । तथा अभव्या न व्यवहारिणो नाप्यव्यवहारिणः, किन्तु व्यवहारित्वादिव्यपदेशवाह्या इति ते व्यावहारिकमध्ये न विवक्षितास्तेषां सम्यक्त्वप्रतिपतितानामनन्तभागवर्तित्वेनाल्पत्वादिति ॥ तदतिसाहसविजृम्भितम्, अभिप्रायमज्ञात्वा प्राचीनप्रकरणविलोपे महाशातनाप्रसङ्गात् । अभव्यानामपि व्यावहारिकबहिर्भावे नियतकायस्थितिरूपसंसारपरिभ्रमणानुपपत्तेर्यादृच्छिककल्पना याऽसमञ्जसत्वप्रसङ्गात, नोव्यवहारित्व-नो अव्यवहारित्वपरिभाषामात्रस्य चाभव्येष्विवोक्ताधिकसंसारिजीवेष्वपि कल्पयितुं वा शक्यत्वाच न किंचिदेतदिति दिग् ॥ ९॥ तदेवमभव्यस्याप्याभिग्रहिकं मिथ्यात्वं भवतीति प्रदर्शयितुमाभिग्रहिक स्य षड् भेदा उक्ताः । अथानाभिग्रहिकादीनामपि सामान्येन बहुप्रकारत्वं निर्दिशन्नतेषु गुरुलधुभावं विवेचयतिअणभिग्गहिआईणवि, आसयभेएण हुंति बहुभेआ। लहुआई तिणि फलंओ, एएसुंदुन्नि गरुआई॥१०॥ %A4..
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy