________________
धर्मपरीक्षा ॥५२॥
सटिप्पणा ॥स्वोपड़ वृत्तिः ॥ गाथा-९ ॥५२॥
BARASHICIRECECABARSANGA
अपि च व्यवहारवनस्पती निवसन्ति । कालमनन्तप्रमाणमनन्तकायादिभावेन ॥३॥ तत्तोवि समुबट्टा, पुढविजलानलसमीरमज्झमि ॥ अस्संखोसप्पिणिसप्पिणीओ णिवसंति पत्तेयं ॥३॥ ततोऽपि समुद्वृत्ताः पृथिवी-जला-नल-समीरमध्ये । असंख्योत्सर्पिण्यवसर्पिणीनिवसन्ति प्रत्येकम् ॥३॥] संखेज पुण कालं, वसंति विगलिदिएसु पत्तेयं ॥ एवं पुणोपुणो वि य, भमंति ववहाररासिंमि ॥४॥" [संख्येयं पुनः कालं वसन्ति विकलेन्द्रियेषु प्रत्येकम् । एवं पुनः पुनरपि च भ्रमन्ति व्यवहारराशौ ॥ ४॥] तल्लघुवृत्तावप्युक्तम्"आदौ सूक्ष्मनिगोदे, जीवस्यानन्तपुद्गलविवर्तान् । तस्मात्कालमनन्तं, व्यवहारवनस्पतौ वासः॥१॥ उत्सर्पिणीरसंख्याः, प्रत्येक भूजलाग्निपवनेषु । विकलेषु च संख्येयं, कालं भूयो भ्रमणमेव ॥ २॥ तिर्यपञ्चेन्द्रियतां, कथमपि मानुष्यकं ततोऽपीह । क्षेत्रकु. लारोग्यायुर्बुद्धयादि यथोत्तरं तु दुरवापम् ॥ ३॥" धर्मरत्नप्रकरणवृत्तावप्युक्तम्-"इभ्यस्तन्नमनार्थ, प्रययौ नत्वा गुरून समयविधिना । निषसाद यथास्थानक-मथ सरिर्देशनां चक्रे ॥१॥ अव्यवहारिकराशी, भ्रमयित्वाऽनन्तपुद्गलविवर्तान् । व्यवहृ. तिराशौ कथमपि, जीवोऽयं विशति तत्रापि ॥२॥ बादरनिगोद-पृथिवी-जल-दहन-समीरणेषु जलधीनाम् । सप्ततिकोटाकोव्यः, कायस्थितिकाल उत्कृष्टः ॥ ३॥ सूक्ष्मेष्वमीषु पञ्च-स्ववसर्पिण्यो ह्यसंख्यलोकसमाः । सामान्यबादरेऽङ्गुल-गणनातीतांशमानास्ताः | ॥४॥" इत्यादि । संस्कृतनवतत्त्वसूत्रेऽप्युक्तम्-निगोदा एव गदिता, जिनैरव्यवहारिण । सूक्ष्मास्तदितरे जीवा-स्तेऽन्येऽपि व्यवहारिणः ॥१॥" इति तदेवंविधवचनैरनादिसूक्ष्मनिगोदस्यैवासांव्यवहारिकत्वम्, अन्येषां च व्यावहारिकत्वमिति स्थितौ परोक्ता युक्तिरेकाऽवतिष्ठते । तत्र “सिझंति जत्तिया किर०" इत्यादिना व्यवहारराशितः सिद्धानामनन्तगुणत्वं व्यवस्थाप्य तदनन्तगुणत्वेन बादरनिगोदजीवानामव्यावहारिकत्वं च व्यवस्थापितम् । तदसत,(ततः)सिद्धथवच्छिन्नव्यवहारराश्यपेक्षया सिद्धानामनन्तगुणत्वसिद्धावपि
NEWSTMASSACSCACIES