SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥५१॥ का सटिप्पणा ॥स्वोपज्ञ वृत्तिः ॥ गाथा-९ ॥५१॥ RASACASSA न्द्रियादिषु ततोऽन्यदा श्रीनिलयनगरे धनतिलकवेष्ठिनो जातस्त्वं वैश्रमणनामा पुत्रः। तत्र च 'स्वजनधनभवनयौवनवनितातत्त्वाद्यनि | त्यमिदमखिलं ज्ञात्वाऽऽपत्राणसहं धर्म शरणं भजत लोकाः?' इति वचनश्रवणाजाता धर्मकरणबुद्धिः केवलम् । साऽपि कुदृष्टिसम्भवा महापापबुद्धिरेव परमार्थतः सञ्जाता । तद्वशीकृतेन च स्वयम्भूनाम्नस्त्रिदण्डिनः शिष्यत्वं प्रतिपन्नम् । ततस्तदपि मानुषत्वं हारयित्वा व्यावर्तितो भ्रामितः संसारेऽनन्तपुद्गलपरावर्तानिति । ततोऽनन्तकालात्पुनरप्यन्तराऽन्तरा लब्धं मानुषत्वम्, परं न निवृत्ताऽसौ कुधर्मबुद्धिः। शुद्धधर्मश्रवणाभावोऽपि क्वापि सद्गुरुयोगाभावात्क्वचिदालस्यमोहादिहेतुकलापात् । क्वचिच्छुद्धधर्मश्रवणेऽपि तन्निवृत्तोऽसौ शून्यतया तदर्थानवधारणात् क्वचिच्च श्रद्धानेन ततः कुधर्मबुद्धथुपदेशाद्धमच्छलेन पशुवधादिमहापापानि कृत्वा भ्रान्तस्तथैवा(स्तेष्वेवा) नन्तपुद्गलपरावर्तीनिति ॥” तथा श्रावकदिनकृत्यवृत्तावप्युक्तम्-"इह हि सदैव लोकाकाशप्रतिष्ठितानाद्यपर्यवसितभवचक्राख्य| पुरोदरविपरिवर्ती जन्तुरनादिवनस्पतिषु सूक्ष्मनिगोदापरपर्यायेष्वनन्तानन्तयुद्गलपरावर्तान्समकाहारोच्छ्वासनिःश्वासोऽन्तर्मुहूर्तान्तर्ज |न्ममरणादिवेदनात्रातमनुभवति" इत्यादि । तथा "एवं च तथाविधभव्यजन्तुरप्यनन्तकालमव्यवहारराशौ स्थित्वा कर्मपरिणामनपादेशातथाविधभवितव्यतानियोगेन व्यवहारराशिप्रवेशत उत्कर्षेण बादरनिगोदपृथिव्यप्तेजोवायुषु प्रत्येकं सप्तकोटिसागरोपमाणि तिष्ठन्ति। एषा च क्रिया सर्वत्र योज्या। एतेष्वेवं सूक्ष्मेष्वसंख्यलोकाकाशप्रदेशसमा उत्सर्पिण्यवसर्पिण्यः" इत्यादि ॥ पुष्पमालाबृहदवृत्तावप्युक्तम् "ननु कथमित्थं मनुष्यजन्मदुर्लभं प्रतिपाद्यते? उच्यते-समाकर्णय कारणम् । “अबवहारणिगोएसु, ताव चिट्ठति जंतुणो | सके ।। पढमं अणंतपोग्गल-परिअट्टे थावरत्तेणं ॥१॥ [अव्यवहारनिगोदेषु तावत्तिष्ठन्ति जन्तवः सर्वे ।। प्रथममनन्तपुद्गलपरावर्तान् स्थावरत्वेन॥१॥] तत्तो विणिग्गया वि हु, ववहारवणस्सइंमि णिवसंति । कालमणंतपमाणं, अणंतकायाइभावेणं ॥२॥ ततो विनिर्गता
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy