________________
धर्मपरीक्षा
119011
शरीरे अनन्ताः परिणमन्ति, असंख्यनिगोद समुदयनिष्पन्नगोलकभावेन । समकमनन्ता जीवा उच्छ्वसन्ति, समकं निःश्वसन्ति, सम कमाहारयन्ति, समकं परिणामयन्ति समकमुत्पद्यन्ते, समकं विद्यन्ते, स्त्यानर्द्धिमहानिद्रा गाढज्ञानावरणादिकर्म पुद्गलोदयेन न वेदयन्ति आत्मानं, न जानन्ति परं न शृण्वन्ति शब्दम्, न पश्यन्ति स्वरूपम्, नाजिघ्रन्ति गन्धम्, न बुद्धयन्ते रसम्, न वेदयन्ति स्र्पशम्, न स्मरन्ति कृताकृतम्, मतिपूर्वं न चलन्ति, न स्पन्दन्ते, न शीतमनुस्मरन्ति, नातपमुपगच्छन्ति । केवलं - तीत्रविषय वेदनाभिभूतम"द्यपानमत्त - मुदित पुरुषवद्यथोत्तरकालं तेषु उषित्वा कथमपि तथाभव्यत्व भवितव्यतानियोगेन किमपि तथाविघटित कर्म पुद्गलसंयोगास्तेभ्यो निर्गत्योत्पद्यन्ते केचित्साधारणवनस्पतिषु आर्द्रक - सूरण-गर्जर - वज्रकन्दादिरूपेण || तथा तत्रैव प्रदेशान्तरे प्रोक्तम् — “ ततो बलिनरेन्द्रेणोक्तम्- स्वामिंस्तर्हीदमेव श्रोतुमिच्छामि, प्रसादं विधाय निवेदयन्तु भगवन्तः । ततः केवलिना प्रोक्तम्महाराज ! सर्वायुषाऽप्येतत्कथयितुं न शक्यते । केवलं यदि भवतां कुतूहलं तर्हि समाकर्णयत, संक्षिप्य किंचित्कथ्यते - इतोऽनन्तकालास्परतो भवान्किल चारित्र सैन्य सहायो भूत्वा मोहारिबलक्षयं करिष्यतीति कर्मपरिणामेनासंव्यवहारपुरान्निष्काश्य समानीतो व्यवहारनिगोदेषु । ततो विज्ञातैतद्व्यतिकरैर्मोहारिभिः प्रकुपितैर्विधृतस्तेष्वेव त्वमनन्तं कालम् । ततः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियतिर्यक्षु नरकेष्वनार्यमनुष्येषु चानीतस्त्वं कर्मपरिणामेन, पुनः पुनरनन्तवाराः कुपितैर्मोहादिभिर्व्यावर्त्य नीतोऽसि पश्चान्मुखो निगोदादिषु, एवं तावद् यावद्भावितोऽस्यतिदुःखितस्तैरनन्तानन्तपुद्गलपरावर्तान् । ततश्चार्यक्षेत्रेऽपि लब्धं मनुष्यत्वमनन्तवाराः, किन्तु हारितं क्वचित् कुजातिभावेन, क्वापि कुलदोषेण, क्वचिजात्यन्धवधिरखञ्जत्वादिवैरूप्येण, क्वापि कुष्ठादिरोगैः क्वचिद| ल्पायुष्कत्वेन एवमनन्तवारा: (रम्), किन्तु धर्मस्य नामाप्यज्ञात्वा भ्रान्तस्तथैव (स्तेष्वेव ) पराङ्मुखो व्यावृत्यानन्तपुद्गलपरावर्ताने के
सटिप्पणा ॥ खोपड वृतिः ॥
गाथा - ९ ॥५०॥