SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥४८॥ सटिप्पणा ॥स्वोपन वृत्तिः ॥ गाथा-९ ॥४८॥ समयसारसूत्रवृत्त्योरप्युक्तम्-"अहवा संववहारिया य असंववहारिया य।" तवृत्तिः, अथवेति द्वैविध्यस्यैव प्रकारान्तरोद्योतने । एतदेव स्पष्टयन्नाह-"तत्थ जे अणाइकालाओ आरब्भ सुहुमणिगोएमु चिठ्ठति न कयाइ तसाईभावं पत्ता ते असंववहारिया । जे पुण सुहुमणिंगोएहितो निग्गया सेसजीवेसु उप्पन्ना ते संववहारिआ ते अपुणोवि मुहुमणिगोअत्तं पत्तावि संववहारिअच्चिय भण्णंति ॥" | [अथवा सांव्यवहारिकाश्चासांव्यवहारिकाश्च ।। तत्र ये अनादिकालादारभ्य सूक्ष्मनिगोदेषु तिष्ठन्ति,न कदाचित् त्रसादिभावं प्राप्तास्ते असांव्यवहारिकाः । ये पुनः सूक्ष्मनिगोदेभ्यो निर्गताः शेषजीवेषूत्पन्नास्ते सांव्यवहारिकाः । ते च पुनरपि सूक्ष्मनिगोदत्वं प्राप्ता अपि | सांव्यवहारिका एव भण्यन्ते ] इदमत्र हृदयम्-सर्वसंसारिणां प्रथममनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावस्थानम् , तेभ्यश्च निर्गताः शेषजीवेषत्पन्नाः पृथिव्यादिव्यवहारयोगात्सांव्यवहारिकाः। ते च यद्यपि कदाचिद् भूयोऽपि तेष्वेव निगोदेषु गच्छन्ति, परं तत्रापि | सांव्यवहारिका एव, व्यवहारपतितत्वात् । ये न कदाचित्तेभ्यो निर्गताः "अत्थि अणंता जीवा, जेहिं ण पत्तो तसाइपरिणामो । तेवि | अणंताणंना, णिगोअवासं अणुहवंति"॥१॥ [सन्त्यनन्ता जीवा यैर्न प्राप्तस्त्रसादिपरिणामः: तेऽप्यनन्तानन्ता निगोदवासमनुभवन्ति ॥] इति वचनात्तत्रैवोत्पत्तिव्ययभाजस्ते तथाविधव्यवहारातीतत्वादसांव्यवहारिका इति। तत्रैवाग्रेऽप्युक्तम्-"तेरसविहा जीवा जहा णोसुहुमणिगोअरूवे असंववहारभेए । बारस संववहारिआ, ते आइमे-पुढवी-आऊ-तेउ-बाउ-णिगोआ, मुहूमबायरत्तेण दु दु भेआ,१० पत्तेअवणस्सई १० तसा ११ य ॥"[त्रयोदशविधा यथाक्ष्मनिगोदरूपोऽसंव्यवहारभेदः, द्वाद सांव्यवहारिकाः,-पृथिव्य-ते चेमे-पृथिव्यप्ते जोवायुनिगोदाः सूक्ष्मवादरत्वेन द्वौ द्वौ भेदो, प्रत्येकवनस्पतयः त्रसाश्च । सांव्यवहारिकासांव्यवहारिकत्वेन जीवानां द्वैविध्यं प्रार दर्शितम्।तत्रासांव्यवहारिको राशिरेक एव मूक्ष्मनिगोदानामेवासांव्यवहारिकत्वात्. सांव्यवहारिकभेदास्तु द्वादशा च इमे पृथिव्यादयः MARCH
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy