________________
धर्मपरीक्षा
45
४७॥
सटिप्पणा ॥खोपक्ष वृत्तिः ॥ गाथा-१ ॥४७॥
जीर्णायां जीर्णायामपरां गुटिकां दत्तवती, केवलं सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती । तत्र पुनरेकाक्षनिवासनगरे समागता तीव्रमोहात्यन्तबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोगेण ममानेकाकारं स्वरूपं प्रकटयति स्मेत्यादि ।" (टी०) ननु बादरनिगोदजीवानां योगशास्त्रवृत्तौ व्यवहारित्वस्यैव भणनान्न तेषामव्यवहारित्वमित्येवाह-नन्विति, कथमिति आझेपे नैवेत्यर्थः । तत्र-यो | गशास्त्रवृत्तौ । ननु सूक्ष्मनिगोदा इत्यत्रेतरेतरद्वन्द्वसमासाश्रयणे सूक्ष्मपृथिव्यादिजीवानामप्यव्यवहारिवापत्तिप्रसङ्ग इत्यत आह-वृक्ष्मपृथिव्यादिजीवानामिति तथा चेष्टापत्तिरिति भावः । स्फुटमेव प्रतीयते-ऐदंपर्येण न तु शब्देन । ननु तद्बोधकशब्दाभावेऽस्मिन्नेवार्थे तात्पर्य मिति कथं ज्ञातम् ? इत्याह-लोकदृष्टिपथमित्यादि । अन्यथा-सूक्ष्मपृथिव्यादिजीवानामव्यवहारिवानङ्गीकारे । अवक्ष्यत् लाघवसत्त्वादिति शेषः, बाधकाभावे गौरवस्य दुष्टत्वादिति भावः । ननु यदि सूक्ष्मपृथिव्यादिजीवानामव्यवहारिव एवं प्रज्ञापनावृत्त्यभिप्राय: स्यात्तदा " ये निगोदावस्थात उद्धृत्य " इत्यादि सूक्ष्मपृथिव्यादीनामपि कथं नोक्तम् ? इत्याह यच्चेति इत्थञ्चेति । सूक्ष्मपृथिव्यादिजीवानां बादरनिगोदजीवानाञ्चाब्यवहारित्वसिद्धौ च । उक्तार्थे पूर्वाचार्यसंवादमाह-प्रवचनसारोद्धारवृत्तावपीति । नन्वत्र सर्वत्र कर्मधारयसमासाश्रयणे अस्मदुक्तमपि न दुष्टमित्याह-सर्वत्रापीति "ततोऽभव्या अव्यवहारिका एव" इत्यादिनाऽभव्यानामग्यवहारित्वमुक्तं, तदसत्, विकल्पासहत्वादित्येवाह उच्यते । तत्-अव्यवहारिकत्वम्, किं शब्द:-प्रश्ने । नन्वभव्यव्यावृत्तमन्यदेव लक्षणमित्याहअनन्तद्रव्येत्यादि तथाचोपदेशपदवचनेन विरोधः स्यादिति भावः । द्वितीयपक्षमाह-अथेति । तेषाम्-अभव्यानाम् । असिद्धेरिति-बहुश्रुतप्रमाणस्वेन इति शेषः। ननुक्तपरिभाषयैवाव्यक्तमिथ्यात्वनियमाभ्युपगमादिप्रक्रियायाः सिद्धिः स्यादित्याह-न हीति, पतेन-वक्ष्यमाणयुक्त्या । बादरनिगोदजीवानां प्रज्ञापनावृत्त्यनुसारेणाव्यवहारित्वमुक्तं तदप्यसमञ्जसमेवेत्येवाह किश्चेति । नन्विदं सूत्रं सांव्यवहारिकविशेषविषयकमेवेति कथं ज्ञातम् ! इति चेदाहविशेषविषयत्वादिति। नन्विदं स्वोत्प्रेक्षामूलकत्वेनाप्रमाणं स्थादित्यत आह-न चेति, यत इति यस्मात्कारणात् । तह कायेत्यादिगाथाया अयमर्थः-तथा कायस्थितिकालादयो ये उक्तास्ते शेषान् अनादिवनस्पतिव्यतिरिक्तान् जीवान् प्रतीत्य-आश्रित्य, किल निश्चयेन ज्ञेया इति शेषः, किन्तु नानादिवनस्पतीनाश्रित्य यत ये अनादिवनस्पतयः संव्यवहारबाझाः असांव्यवहारिका इत्यर्थः । नन्वनादिवनस्पतिशब्देन कथं न निगोदमात्रस्याभिधानमित्यत आहअनादिवनस्पतय इति, इतिः-हेतौ-तथा च यस्मात्कारणाद्, ग्रन्थान्तरेऽप्ययमेवाभिप्रायः । ननु कस्मिन् ग्रन्थान्तरे इत्याह उक्तश्चेति,