________________
धर्मपरीक्षा ॥४५॥
सटिप्पणा ॥स्वोपक्ष वृत्तिः ॥ गाथा-९ ॥४५॥
AMSUTRASTRUCACC
ग्राह्यशरीरत्वरूपलक्षणं न तु लक्षणमित्यावयोः समानम्, अन्यथाऽस्माकं मूक्ष्मपृथिवीकायिकादिष्वव्याप्तेरिव तव मते बादरनिगोदेऽतिव्याप्तेरपि प्रसङ्गात् । किं च-प्रज्ञापनावृत्त्यभिप्रायेणापि बादरनिगोदजीवानां व्यवहारित्वमेव प्रतीयते । ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसांव्यवहारिका इति वचनादनादिवनस्पतीनामेवाव्यावहारिकत्वाभिधानात् । | तत्रेदं सूत्रं सांव्यवहारिकानधिकृत्यावसेयम्, न चासांव्यवहारिकान् , विशेषविषयत्वात्सूत्रस्य । न चैतत्स्वमनीषिकाविजृम्भितम् । यत
आहुर्जिनभद्रगणिक्षमाश्रमणपूज्यपादाः-"तह कायठिईकाला-दओ वि सेसे पडुच्च किर जीवे । नाणाइवणस्सइणो, जे संववहारबाहिरिया ॥१॥ण तथा कायस्थितिकालादयोऽपि शेषान् प्रतीत्य किल जीवान् । नानादिवनस्पतीन् ये संव्यवहारबाह्याः॥] अत्रादिशब्दात्सर्वैरपि जीवः श्रुतमनन्तशः स्पृष्टमित्यादि । यदस्यामेव प्रज्ञापनायामेव वक्ष्यते प्रागुक्तं च तत्परिग्रहस्ततो न कश्चिद्दोष इति, | अग्रे व्यक्तमेव अनादिवनस्पत्यतिरिक्तानां व्यावहारिकत्वाभिधानाच्च । अनादिवनस्पतय इति च सूक्ष्मनिगोदानामेवाभिधानम् , न तु बादरनिगोदानामिति ग्रन्थान्तरेऽप्ययमेवाभिप्रायो ज्ञायते । उक्तं च लघूपमितभवप्रपञ्चग्रन्थे श्रीचन्द्रसूरिशिष्यश्रीदेवेन्द्रसूरिभिः-"अस्त्यत्र लोके विख्यात-मनन्तजनसकुलम् । यथार्थनामकमसं-व्यवहाराभिधं पुरम् ॥३७॥ तत्रानादिवनस्पति| नामानः कुलपुत्रकाः । वसन्ति(च) तत्र कर्म-परिणाममहीभुजा ॥६८॥ नियुक्तौ तीव्रमोहोद-यात्यन्तबोधनामको । महत्तमवलाध्यक्षौ, तिष्ठतः स्थायिनौ सदा ॥ ६९ ॥ युग्मम् ॥ताभ्यां कर्मपरिणाम-महाराजस्य शासनात् । निगोदाख्यापवरकेष्व-संख्येयेषु दिवाऽनिशम्
॥७॥क्षिप्त्वा संपिण्ड्य धार्यन्ते, सर्वेऽपि कुलपुत्रकाः। प्रसुप्तवन्मूर्छितव-न्मत्तवन्मृतवच्च ते॥७१॥ युग्मम्।। ते स्पष्टचेष्टाचैतन्य-माहै|पादिगुणवर्जिताः । छेदभेदप्रतीघात-दाहादीन्नाप्नुवन्ति च ॥७२॥ अपरस्थानगमन-प्रमुखोनापि कश्चन । क्रियतेऽन्योऽपि तैलौक