________________
A
कोपरीक्षा ॥४४॥
सटिप्पणा ॥ खोपन वृचिः ॥ गाथा-९ ॥४४॥
RRRRRRORS
सूक्ष्माश्च निगोदजीवाश्चेति द्वन्द्वः, अनादयश्च ते सूक्ष्मनिगोदजीवाश्चेति कर्मधारयः, इति समासविधिद्रष्टव्यः । सर्वत्रापि कर्मधारयकरणे बादरनिगोदजीवानां व्यवहारित्वसम्पत्तावुक्तागमबाधप्रसङ्गादिति चेत् । उच्यते-यदेवं प्रज्ञापनावृत्त्यभिप्रायमनुसृत्याभव्यानामव्यावहारिकत्वं व्यवस्थाप्यते, तत्कि व्यावहारिकलक्षणायोगादुत परिभाषान्तराश्रयणात् !, नाद्यो लोकव्यवहारविषयः प्रत्येकशरीरवत्त्वादिस्तल्लक्षणस्याभव्येष्वपि सत्त्वादनन्तद्रव्यक्रियाग्रहणपरित्यागवतां तेषामव्यावहारिकराशिविनिर्गतत्वेन व्यावहारिकत्वस्योपदेशपदप्रसिद्ध त्वाच्च । तथा च तद्ग्रन्थः-"जं दव्वलिंगकिरिया-णतातीया भवंमि सगलावि। सव्वेसिं पाएणं, ण य तत्थवि जायमेअंति ॥१॥" एतद्वृत्तिः जमित्यादि। यद्-यस्माद्, द्रव्यलिङ्गक्रियाः-पूजाघभिलाषेण व्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः,किम्? इत्याह-अनन्ता-अनन्तनामकसंख्याविशेषानुगता,अतीता व्यतिक्रान्ताः,भवे-संसारे, सकला अपि-तथाविधसामग्रीवशात्परिपूर्णा अपि, सर्वेषां-भवभाजां, प्रायेण-अव्यावहारिकराशिगतानल्पकालतनिर्गतांश्च मुक्त्वेत्यर्थः। | ततोऽपि किम् ? इत्याह-नच-नैव, तत्रापि तावपि सकलासु द्रव्यलिङ्गक्रियासु, जातमेतद्-धर्मबीजमित्यादि।।" अथ पृथिव्यादिव्य| वहारयोगेन तेषां व्यवहारिकत्वेऽप्यावलिकाऽसंख्येयभागपुद्गलपरावर्ताधिकसंसारवत्त्वेन न व्यावहारिकत्वमिति परिभाषान्तरमाश्री| यते इति द्वितीयः पक्षः परिगृह्यते इति चेत, परिगृह्यतां यदि बहुश्रुताः प्रमाणयन्ति, नैवमस्माकं कापि क्षतिः, मुख्यव्यावहारिकलक्षणपरित्यागेन तेषामव्यक्तमिथ्यात्वनियमाभ्युपगमादिविरुद्धप्रक्रियाया असिद्धः । न हि परिभाषा वस्तुस्वरूपं त्याजयतीति । एतेन बादरनिगोदजीवानां व्यावहारिकत्वनिषेधोऽपि प्रत्युक्तः, परिभाषामात्रेण लक्षणसिद्धस्य व्यावहारिकत्वस्य निषेधुमशक्यत्वात् । पृथिव्यादिविविधव्यवहारयोगिन्वलक्षणस्य तस्य प्राप्तसूक्ष्मनिगोदेतरत्वपर्यवसितस्यानुगतस्यानादिसूक्ष्मनिगोदेतरसर्वजीववृत्तित्वात् । चक्षु