________________
वर्मपरीक्षा ४३॥
[टी०] अत्थीत्यादि "एवमन्यत्रापि" "सामग्गीअभावाओ ववहारियरासिअप्पवेसाओ ॥ भव्वा वि ते अर्णता सिद्धिसुहं जे न पावंति।।१॥” प्रज्ञापनावृत्युक्तार्थस्याशयमजानानः शकते-नन्वित्यादिना। आगमविरोधमाह-किञ्चति। एवं व्यावहारिकाणामुत्कर्षतोऽप्यावलिकाऽसङ्ख्येयभागपुद्गलपरावर्तस्थि
सटिप्पणा तिसिद्धौ। तदपीति वनस्पतीनां निर्लेपनमपि । प्रसक्तम् आपतितम् । 'अनिष्टापादनं प्रसङ्गः' अन्यस्य-अभब्यस्य । ननु निलेपनमोक्षपथव्यवच्छेदस्य प्रसक्तः
॥ स्वोपक्ष को दोष इत्याह न चैतदस्तीति, समाधिमाह-उच्यते । अव्यावहारिकाः, एव न तु व्यावहारिकाः, एवकारेणाऽभव्येष्वव्यवहारित्वस्यात्यन्तायोगव्यवच्छेदो
वृत्तिः ॥ बोध्यत इति भावः । अन्यथा-अव्यावहारित्वस्य त्यन्तायोगव्यवच्छेदानभ्युपगमे । वा-विकल्पे तथा चाऽन्यतरप्रसङ्गाद् । अत एव-पूर्वोक्तान्यतरप्रसङ्गादेव ।
गाथा-९ ननु "सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा, सूक्ष्मा निगोद एवान्त्याः, तेभ्योऽन्ये व्यवहारिणः।" इति योगशास्त्रवृत्ति- ॥४३॥ वचनाद् बाँदरनिगोदजीवानां व्यवहारित्वसिद्धेः कथमन्यवहारित्वमिति चेत् । न, तत्र 'सूक्ष्मनिगोदा एवान्त्याः ' इति पाठस्यापि दर्शनात् तत्र सूक्ष्माश्च निगोदाश्चेतीतरेतरद्वन्द्वकरणेऽसंगतिगन्धस्याप्यभावाद् । सूक्ष्मपृथिव्यादिजीवानां चाव्यवहारित्वं प्रज्ञापनावृत्त्यभिप्रायेण स्फुटमेव प्रतीयते, लोकदृष्टिपथमागतानामेव पृथिव्यादिजीवानां व्यवहारित्वभणनाद्, अन्यथा 'प्रत्येकशरीरिणो व्यावहारिकाः' इत्येव वृत्तिकदवक्ष्यत् । यच्च केवलं निगोदेभ्य उद्वृत्त्य पृथिवीकाथिकादिभवेषु वर्तन्ते इत्यादि भणितम् , तत्सूक्ष्मपृथिव्यादिजी-12 वानामसंख्येयत्वेनाल्पत्वाद् अवश्यभाविव्यवहारित्वाद्वाविवक्षणादिति सम्भाव्यते, सम्यग्निश्चयस्तु बहुश्रुतगम्य इति । एवं चासांव्य-1४ वहारिका जीवाः सूक्ष्मपृथिव्यादिषु निगोदेषु च सर्वकालं गत्यागतीः कुर्वन्तीति सम्पन्नम् । इत्थं च तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्वृत्त्य | शेषजीवेषूत्पद्यन्ते पृथिव्यादिविविधव्यवहारयोगात्सांच्चयहारिकाः। ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते तथाविधव्यवहारातीतत्वादसांव्यवहारिका इति । प्रवचनसारोद्धारवृत्तावपि “ अनादिसूक्ष्मनिगोदजीवा.अव्यवहारिणः" इत्यत्र सूक्ष्माः पृथिव्यादयश्चत्वारो, निगोदाश्च बादरसाधारणवनस्पतयः, न विद्यते आदियेषां तेऽनादयः-अप्राप्तव्यवहारराशय इत्यर्थः। तथा च