________________
वर्मपरीक्षा mer
सटिप्पणा | ॥खोपा
इति। गाथा॥४१॥
| च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात् ? उच्यते--इह द्विविधा जीवाः-सांव्यवहारिका अमांव्यवहारिकाश्च । तत्र ये निगोदावस्थात उद्धृत्त्य पृथिवीकायिकादिभवेषु (भेदेषु) वर्तन्ते ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति सांव्यवहारिका उच्यन्ते । ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथाऽपि ते सांव्यवहारिका एव, संव्यवहार(रे) पतितत्वात् । ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसांव्यवहारिकाः । कथमेतदवसीयते द्विविधा जीवाः सांव्यवहारिका असांव्यवहारिकाश्चेति!, उच्यते, युक्तिवशात् । इह प्रत्युत्पन्नवनस्पतीनामपि निर्लेपनमागमे प्रतिषिद्धम् , किं पुनः सकलवनस्पतीनां तथा भव्यानामपि । तच्च यद्यसांव्यवहारिकराशिनिपतिता अत्यन्तवनस्पतयो न स्युस्ततः कथमुपपद्येत ? तस्मादवसीयते-अस्त्वसांव्यवहारिकराशिरिति, यद्गतानां वनस्पतीनामनादिता। किंच-इयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा |" अत्थि अणंता जीवा, जेहिं ण पत्तो तसाइपरिणामो। तेवि अणताणंता, णिगोअवासं अणुहवंति (वसंति) ॥१॥” [मन्त्यनन्ता जीवा यैन प्राप्तः त्रसादिपरिणामः । तेऽप्यनन्तानन्ता निगोदवासमनुभवन्ति ॥] तत इतोऽप्यसांव्यवहारिकराशि सिद्धिः । उक्तं च-"ण य पच्चुप्पन्नवण-स्सईणं णिल्लेवणं न भव्वाणं । जुत्तं होइण तं जइ, अचंतवणस्सई नत्थि ॥१॥ एवं चा(म)णाइवण-स्सईणमत्थित्तमत्थओ सिद्धं । भण्णइ इमावि गाहा, गुरुवपसागया समए ॥२॥[न च प्रत्युत्पन्नवनस्पतीनां न भव्यानाम् । युक्तं भवति न तद् यदि अत्यन्तवनस्पतिर्नास्ति ॥ एवं चानादिवनस्पतीनामस्तित्वमर्थतः सिद्धम् । भण्यते इयमपि गाथा गुरूपदेशागता समये ॥] "अत्थि अणंता जीवा इत्यादि १८ पदे " ततोऽभव्या अव्यावहारिका एव, अन्यथाऽसंख्येयपुद्गलपरावर्तकालातिकमे तेषां सिद्धिगमनसाव्यवहारित्वभवनस्य वा प्रसङ्गाद् । अत एव चादरनिगोदजीवा अप्यव्यावहारिकराशावभ्युपगन्तव्याः, अन्यथा बादरनिगोदजीवेभ्यः सिद्धा