SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा सटिप्पणा खोपज्ञ वृत्तिः ॥ | गाथा-९ सर्वेऽपि कायपरावर्त कुर्वते, यथा स्वस्थितिकाले सुरादयः । उक्तं च-"जइ पुग्गलपरिअट्टा, संखाईआ वणस्सईकालो। तो अश्चंत| वणस्सइ-जीवो कह नाम मरुदेवी? [तो अच्चंतवणस्सईण-मणाइयत्तमहेऊओ]॥१॥हुज व वणस्सईणं. अणाइअत्तम(मत एव)डेऊओ। न य मरुदेवाजीवो. जावज्जीव वणस्सई आसीजमसंखेनापोग्गल-परिअद्दा तत्थवत्थाणा शाकालेणेवइपणं, त(जम्हा कुव्वंति कायपलढें । सव्वेवि वणस्सइणो, ठिइकालंते जह सुराई ।।३॥ यदि पुद्गलपरावर्ताः संख्यातीता वनस्पतिकालः । ततोऽत्यन्तवनस्पतिजीवः कथं नाम मरुदेवी ? ॥१॥ भवेद्वा वनस्पतीनामनादिकत्वम(मतएव)हेतोः। यदसंख्येयाः पुद्गलपरावर्तास्तत्रावस्थानम् ॥२॥ कालेनै तावता तस्मात्कुर्वन्ति कायपरिवर्तम् । सर्वेऽपि वनस्पतयः स्थितिकालान्ते यथा सुरादयः ॥३॥] किंच- एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धम्, तदपीदानी प्रसक्तम्, कथम्? इति चेद् । उच्यते-इह प्रतिसमयमसंख्येया बनस्पतिभ्यो जीवा उद्वर्तन्ते, वनस्पतीनां च कायस्थितिपरिमाणमसंख्येयाः पुद्गलपरावर्ताः, ततो यावन्तोऽसंख्येयेषु पुद्गलपरावर्तेषु समयास्तरभ्यस्ता एकसमयोवृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पतीनाम्। ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपनम् , प्रतिनियतपरिमाणत्वात्.एवं च गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्य स सिद्धिगमनायोगात् । आह च-"कायठिइकालेणं, तेसिमसंखिजयावहारेणं । णिल्लेत्रणमावण्णं, सिद्धीवि य सव्वभव्वाणं ॥१॥ | पइसमयमसंखिज्जा, जेणुव्बदंति तो तदभत्था । कायठिईए समया, वणस्सईणं च परिमाणं । २॥" [कायस्थितिकालेन तेषामसं ख्येयताकाऽपहारेण । निर्लेपनमापन्नं सिद्धिरपि च सर्वभव्यानाम् ॥ प्रतिसमयमसंख्येया येनोद्वर्तन्ते ततस्तदभ्यस्ताः । कायस्थित्याः समया वनस्पतीनां परिमाणम् ॥ ] न चैतदस्ति, वनस्पतीनामनादित्वस्व-निर्लेपनप्रतिषेधख-सर्वभव्यासिद्धे-र्मोक्षपथाव्यवच्छेदस्य
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy