________________
धर्मपरीक्षा
SANSAR
सटिप्पणा ॥ वोपन वृत्तिः ॥ गाथा-९ ॥३॥
*%
%
तदव्यक्तमिस्यभ्युपगमे सति । ननु चरमपुद्गलपरावर्तातिरिक्तपरावर्तवर्तिनां भव्यानामनाभोगेनैव मिथ्यात्वव्यवहारसम्भवात्, तेषामाभिमहिकाभ्युपगमे ममाणाभावात्तदुच्छेदप्रसङ्गे न किञ्चिदप्यनिष्टमित्याह-किश्चेति, अन्यथा-समीहितनगरबिमुख गच्छन् । नोन्मार्गगामिन इति-तेषामनाभोगमिथ्यात्वेन शाक्यादिदर्शनाश्रयणासम्भवप्रसाः तव मते, शाक्यदर्शनाश्रयणं तु सर्वजनप्रसिद्धमिति तस्यापलपितुमशक्यत्वादिति भावः । ननु तेषामुन्मार्गगामित्वाभावे को दोष इत्याह-कुप्पवयणेत्यादि । ननु " कुप्पवयणेत्यादिकस्य उत्तराध्ययनीयत्रयोविंशाध्ययनरूपप्रवचनस्य चरमपुद्गलपरावर्तवर्तिनामेव तेषामुन्मा गामित्वव्य वस्थापकत्वास दोष इत्याह किचेति । सर्वत्र त्रैराशिकमतानुसरण इति-जीव-अजीव-नोजीववद्, हिंसकत्वमहिंसकत्वं नोहिंसकत्वमित्यादि सर्वत्र त्रैराशिकमतानुसरणे सति । हिंसकत्वाहिंसकत्वभिन्नस्य तृतीयभेदस्य जैनप्रक्रियायामप्रसिद्धत्वेन तदङ्गीकारे तस्या मूलत: सर्वथा विलोपरूपो महादोष इति भावः । इति। तेषाभव्यानामनन्तपुद्गलपरावर्तवर्तित्वेनाऽव्यवहारित्वसिद्धथा तेषामन्यक्तमिथ्यावे याधकाभावात् । अस्मन्मतमिति-अभव्यानामनाभोगमेव मिथ्यात्वमिति । नायमप्येकान्त इति-अत्र अपिशब्दः समुच्चायकः तेन चरमपुद्गलपरावर्तातिरिक्तपुद्गलपरावर्तवर्तित्वस्य समुच्चयः, तथा च तयो योरपि हेत्वोः व्यक्तमिथ्यात्ववत्सु व्यावहारिकेच्वपि सत्वावधभिचारित्वमिति भावः । नन्वावलिकाऽसंख्येयभागः पुद्गलपरावर्तानामसंख्यातगुणानामप्यसंख्यातत्वमेवेत्येवाह-यत्पुनरिति, तथा च व्यावहारिकाणामनन्तपुद्गलपरावर्तवर्तित्वस्यौसिद्धत्वेनाव्यवहितोक्तहेतोर्न व्यभिचारित्वमिति भावः । तदपि नैकान्तरमणीयमिति-आवलिकाऽसंख्येयभागः पुद्गलपरावर्तानामसंख्यातगुणानामप्यसंख्यातत्वमेवेत्यपि न सर्वथा शोभनम् । पूर्वाचार्यवचनेन बिरोधादिति शेषः । अनुपदोक्तस्यार्थस्य निष्कर्षमाह-दतीत्यादिना ॥
' ननु प्रज्ञापनावृत्तौ व्यावहारिकाणामुत्कर्षतोऽप्यावलिकासंख्येयभागपुद्गलपरावर्तस्थितिः, तत ऊर्ध्व चावश्य सिद्धिरिति स्फुटं प्रतीयते । तथा च तद्ग्रन्थः-"ननु यदि वनस्पतिकालप्रमाणमसंख्येयाः पुद्गलपरावर्तास्ततो यद् गीयते सिद्धान्ते "म
रुदेवाजीवो यावज्जीवभावं वनस्पतिरासीद"इति तत्कथं स्यात् ? कथं वा वनस्पतीनामनादित्वम् ?, प्रतिनियतकालप्रमाणतया ला वनस्पतिभावस्यानादित्वविरोधात । तथाहि-असंख्येयाः पुद्गलपरावर्तास्तेषामवस्थानमानमः, तत एतावति कालेऽतिक्रान्ते नियमा
%
%