________________
धर्मपरीक्षा
111
W
30
इति शाक्यसिंहानुसारी, क्षणिकस्याञ्चित्तसन्ततेः । यद्वोपचरित भोक्तृत्वस्यानभ्युपगमात्र भोकेतिवेदान्तिमतम् । नास्ति निर्वाणम् इति नास्तिकप्रायाणां सर्वज्ञानभ्युपगन्तॄणां यवनां मते । तथव च ते प्रलपन्ति "न मुच्यतेऽसौ चेतनखात् अभव्यवत्" । किञ्च रामादीनामात्मस्वरूपाव्यतिरेकात् सर्वदुःखविमोक्षत्वलक्षणस्य तस्यासम्भव आत्मनः क्षयाभावेन तेषामप्यक्षयात् । अस्ति मुक्तिः परं नास्ति मोक्षोपायः सर्वभावानां नियतत्वेनाकस्मादेव भावादिति नियतिवादिनः १ चार्वाकादीत्यादि । चारू रमणीयो वाकः "पिब खा च चारुलोचने" इत्यादिरूपा “एतावानेव लोकोऽयं इत्यादिका" वा उक्तिर्यस्य स चार्वाकः । अयं बृहस्पतिशिष्यः । एतदुक्तेः परिणामेऽत्यन्तदुःखप्रदत्वेऽपि श्रवणसमये तस्वातस्वविवेकविकलानां श्रोतॄणां मनोरञ्जनाद्रमणीयत्वमिति भावः ॥ आदिना सांख्यप्रभृतिपरिग्रहः । तेषां दर्शनानि मतानि पक्षा अभ्युपगमा इति यावत् तेषां प्रवर्तकः, समूहे एकवचनं तस्य । परपक्षेत्यादि-परे भाईव्यतिरिक्ताः तेषां पक्ष अभ्युपगमः तस्य निराकरणं अप्रामाण्यज्ञापनं तत्र प्रवृत्ताः सततप्रवृत्तिमन्तः, द्रव्यानुयोग एवं सारो मुख्यविषयो येषु ते द्रव्यानुयोगसाराः ते च सम्मतितरवार्थाने कान्तजय पताकादयो ग्रन्थाः तेषु प्रसिद्धाः । ते च अनुपदोक्ता विकल्पाश्च । सदानास्तिक्यमयानामिति - अनाथनन्तनास्तिक्यभाववतामित्यर्थः । व्यक्ता एव-न त्वव्यक्ता इत्येवकारेणान्यक्कत्वव्यवच्छेदः । इति इतिहेतोः । कस्तेषामाभिग्रहिकत्वसत्त्वे संशय इतिकिमोत्राक्षेपे तस्य संशय इत्यनेनान्वयः तथा च तेषां मोक्षगमनायोग्यानामेते पड़ विकल्पाः सन्त्येव तेषां विकल्पानां चाभिग्राहिकत्वव्याप्यत्वादिति व्यायसरत्वे व्यापकसत्तायां कस्संशयः, नैवेत्यर्थः । इत्थञ्चति तेषामभव्यानामाभिग्रहिकमिध्यात्वे सिद्धे च । नवीनकल्पनां- आगमानुमानादिप्रमाणशून्य कल्पनामिति भावः । कथमिति कस्मादित्यर्थः तस्य न भवतीत्यनेनान्वयः । हि हेतौ व्यक्तमपि-भव्यक्तन्त्वस्त्येवेत्यपिशब्दार्थः । आपातदृशाऽपि किं पुनरागमार्थपर्यालोचनेनेत्यर्थः । व्यक्तमेव स्पष्टतयैव न स्वस्पष्टम् । अम्यदपि प्रमाणमाह-अपि चेति । श्रूयन्ते । आगमे इति शेषः, तेषां पालकसङ्गमकादीनामागमे ह्यभव्यत्वेन प्रसिद्धत्वात्। मोक्षकारण इति स्वरूपोपधायकम्। न तु व्यवच्छेदकं, धर्मपदस्य तत्रैव शक्तत्वात् ननु धर्मस्य कल्पवृक्षाद्युपमेयत्वेन तस्यैहभविकपारभविक फलदायित्वमपि संभवतीत्याह एकान्त इति । तेषाम् अभव्यानाम् । लब्ध्याद्यर्थमिति - लब्ध्याद्युद्देशेन, आदिना पूजाख्यातिप्रभृतिपरिग्रहः । तत्प्रसङ्गात् - अनाभोगप्रसङ्गात् शुद्धिप्रतिपत्यभावस्य तत्रापि सत्वात् । कदापि कस्मिन्नपि कालेऽपि न च नैवैकपुद्गलपरावर्ताविशेषः संसार इत्यन्वयः । इति इति हेतोः । सदैव सर्वकाल एव अध्यर्थक एवकारः । एवं सति - एकपुद्गलपरावर्तावशेषसंसारिणां मिथ्यात्वं व्यक्तम्, तदव्यतिरिक्तानां
सटिप्पणा ॥ स्वोपज्ञ
वृतिः ॥ गाथा - ९