________________
धर्मपरीक्षा 37
प्रवर्तनाभ्यामेव लीलयैव व्यावृत्य विधृतोऽनन्तपुलपरावर्तान्" इत्यादिना च महता ग्रन्थेन भुवनभानुकेवलिचरित्रादौ व्यावहारिकत्वमुपेयुषोऽपि संसारिजीवस्य विचित्रभवान्तरिततयाऽनन्त पुद्गलपरावर्तभ्रमणस्य निगदसिद्धत्वात् । तथा योगबिन्दुसूवृत्तावपि नरनारकादिभावेनानादौ संसारेऽनन्तपुद्गलपरावर्त भ्रमण स्वाभाव्यमुक्तम् । तथा हि- "अनादिरेष संसारो, नानागतिसमाश्रयः । पुद्गलानां परावर्ता अत्रानन्तास्तथागताः ॥ १ ॥” [ एतद्वृत्तिः] अनादिरविद्यमानमूलारम्भः, एष प्रत्यक्षतो दृश्यमानः, संसारो मत्रः कीदृशः ? इत्याह - नानागतिसमाश्रयः - नरनारकादिविचित्र पर्यायपात्रं वर्तते । ततश्च पुद्गलानामौदारिकादिवर्गणारूपाणां सर्वेषां परावर्ता ग्रहणमोक्षात्मकाः, अत्र संसारे, अनन्ता अनन्तवारस्वभावाः, तथा तेन समयप्रसिद्धप्रकारेण, अतीताः । केषाम् ? इत्याह - " सर्वेषामेव सत्त्वानां तत्स्वाभाव्य नियोगतः । नान्यथा संविदेतेषां सूक्ष्मबुद्धया विभाव्यताम् ।। || १ || ” [ एतद्वृत्तिः ] सर्वेषामेव सत्त्वानां प्राणिनां तत्स्वा भाव्यम् - अनन्तपुद्गल परावर्तपरिभ्रमणस्वभावता तस्य नियोगो व्यापारस्तस्माद् । अत्रैव व्यतिरेकमाह, न नैव, अन्यथा - तत्स्वाभाव्यनियोगमन्तरेण, संविद् अवबोधो घटते । एतेषामनन्तपुद्गलपरावर्तानां सूक्ष्मबुद्धया निपुणाभोगेन, विभाव्यताम् - अनुविचिन्त्यतामेतद् । इति व्यावहारिकत्वेऽप्यनन्तपुद्गलपरावर्त - भ्रमणसम्भवात् तेनाभव्यानामव्यावहारिकत्वसाधनमसङ्गतमिति द्रष्टव्यम् ||
[[fo] नास्ति आत्मा देहातिरिक्त इति बृहस्पतिमतानुसारी, तथा च तदुक्तं यथा ते "न स्वर्गे नापवर्गे वा नैवारमा पारलौकिकः । नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः " ॥ १ ॥ इत्यादि । अस्ति आत्मा किन्तु प्रतिक्षणविशरारुरूपतया चित्तसन्ततेर्न नित्य इति सौगताः । तदुक्तं यथा ॥ | “यत्सत्तत्क्षणिकं यथा जलधरः सम्तश्च भावा अमी ॥" अस्ति आत्मा नित्यो भोक्ता, किन्तु न करोति- इति सांख्याः । त एवमाहुः ॥ " यद्यसौ कर्ता न भोक्ता प्रकृतिवत् कर्तुर्भोक्तृत्वानुपपत्तेः। " या "न कर्ता न भोक्ता" इति सांख्यमते तथा च ते वदन्ति । 'पुरुषस्तु पुष्करपलाशवन्निलिंप्सः " कृतं न वेदयति
सटिप्पणा ॥ खोपज्ञ धृतिः ॥
गाथा - ९
1
(60