________________
धर्मपरीक्षा
साटिप्पणा
खोपज्ञ वृत्तिः ।। गाथा-१
त्वाद् । लोकोऽपि निजगृहे भूयःकालं वसन्नपि न मार्गगामी न वोन्मार्गगामीति व्यपदिश्यते, किन्तु गृहानिर्गतः समीहितनगराभिमुखं गच्छन् मार्गगामी, अन्यथा तून्मार्गगामीति व्यपदिश्यते । एवं तथाभव्यत्वयोगेनानादिमिथ्यात्वान्निर्गतो यदि जैनमार्गमाश्रयते तदा मार्गगामी, जैनमार्गस्यैव मोक्षमार्गवाद । यदि च शाक्यादिदर्शनं जमाल्यादिदर्शनं वाऽऽश्रयते तदोन्मार्गगामीति व्यपदिश्यते, तदीयदर्शनस्य संसारमार्गत्वेन मोक्षं प्रत्युन्मार्गभूतत्वादिति स्वकल्पितप्रक्रियापेक्षयाऽचरमपुद्गलपरावर्तवर्तिनः शाक्यादयोऽपि नोन्मा- गंगामिनः स्युरिति, “कुप्पवयणपासंडी, सव्वे उम्मन्गपट्ठिया" [ कुप्रवचनपाखण्डिनः सर्वे उन्मार्गप्रस्थिताः ॥ ] इत्यादि प्रवचनविरोधः । किंच-एवं धर्मधिया विरुद्धक्रियाकरणादुन्मार्गगामित्वं यथा व्यक्तमिथ्यात्वोपष्टम्भाच्चरमपुद्गलपरावर्त एव तथा धर्मधिया | हिंसाकरणाद्धिंसकत्वमपि तदैवेत्यचरमपुद्गलपरावर्तेषु हिंसकत्वादिकमपि न स्यादिति सर्वत्र त्रैराशिकमतानुसरणे जैनप्रक्रियाया मूलत एव विलोपापत्तेर्महदसमञ्जसम् । तस्मादभन्यानामपि दूरभव्यानामिव योग्यतानुसारेणाभिग्रहिकव्यक्तमिथ्यात्वोपगमे न दोष इति मन्तव्यम् । अथाभव्या अव्यक्तमिथ्यात्ववन्तः, अव्यवहारित्वात, सम्प्रतिपन्ननिगोदजीववद्-इत्यनुमानात्तेषामव्यक्तमिथ्यात्वसिद्धिः । अव्यवहारित्वं च तेषामनन्तपुद्गलपरावर्तकालस्थायित्वाद् सिध्यति । व्यावहारिकाणामुत्कृष्टसंसारस्यावलिकासख्येयभाग-1 पुद्गलपरावर्तमानत्वात् । तदुक्तं कायस्थितिस्तोत्रे-"अव्वहारियमझे, भमिऊण अणंतपुग्गलपरहे। कहवि ववहाररासिं, संपत्तो नाह तत्थवि य ॥१॥ उक्कोसं तिरियगई-असण्णि-एगिदि-वण-णपुंसेसु । भमिओ आवलिअअसंख-भागसमपुग्गलपरट्टे ॥२॥" [[अव्यवहारिकमध्ये भ्रान्त्वाऽनन्तपुद्गलपरावर्तान् । कथमपि व्यवहारराशिं सम्प्राप्तो नाथ! तत्रापि च ॥उत्कृष्टं तिर्यग्गत्यसंझ्ये केन्द्रियवन-नपुंसकेषु । भ्रान्त आवलिंकाऽसंख्यभागसमपुद्गलपरावर्तान् । अत एवोत्कृष्टो वमस्पतिकालोऽपि प्रवचने व्यावहारिकापेक्षयै