________________
1564
धर्मपरीक्षा
॥३४॥
सटिप्पणा । खोपज्ञ वृत्तिः ॥ गाथा-९
॥३४॥
तमणाइमणतयं मुणेयव्वं । भव्यागं तु अणाइ-सपज्जवसियं तु सम्मत्ते॥"[मिथ्यात्वमभव्यानां तदनाद्यनन्तकं ज्ञातव्यम् । भव्यानां त्वनादिसपर्यवसितं तु सम्यक्त्वे ॥] इति गुणस्थानकक्रमारोहसूत्रवृत्त्यनुसारेणाभव्यानां व्यक्तमपि मिथ्यात्वं भवतीत्यापातह| शाऽपि व्यक्तमेव प्रतीयते । अपि च पालकसङ्गमकादीनां प्रवचनाहत्प्रत्यनीकानामुदीर्णव्यक्ततरमिथ्यात्वमोहनीयोदयानामेव समुद्भूता नानाविधाः कुविकल्पाः श्रूयन्ते । किं च-मोक्षकारणे धर्म एकान्तभवकारणत्वेनाधर्मश्रद्धामरूपं मिथ्यात्वमपि तेषां लब्ध्याद्यर्थ गृहीतप्रव्रज्यानां व्यक्तमेव । यत्पुनरुच्यते-तेषां कदाचित्कुलाचारवशेन व्यवहारतो व्यक्तमिथ्यात्वे सम्यक्त्वे वा सत्यपि निश्चयतः सर्वकालमनाभोगमिथ्यात्वमेव भवतीति । तदभिनिवेशविजृम्भितम्, शुद्धय(द्धि)प्रतिपत्त्यभावापेक्षया निश्चयेनानाभोगाभ्युपगमे आभि|ग्रहिकादिस्थलेऽपि तत्प्रसङ्गाद्, बहिरन्तव्यक्ताव्यक्तोपयोगद्वयाभ्युपगमस्य वापसिद्धान्तकलङ्कषितत्वाद् । अथ यदेकबुद्गलावशेषसंसारस्य क्रियावादित्वाभिव्यञ्जकं धर्मधिया क्रियारुचिनिमित्तं तन्मिथ्यात्वं व्यक्तम् । यदुक्तम्-"तेसुवि एगो पुग्गल-परिअहो जेसिं हुन्न संसारो। सहभव्वत्ता तेसिं, केसिंचि होइ किरियरुई॥१॥ तीए किरियाकरणं, लिगं पुण होइ धम्मबुद्धीए । किरियाईणिमित्तं, जं वुत्तं वन मिच्छंति॥२॥"[तेष्वपि एकः पुद्गलपरावर्तों येषां भवेत्संसारः । तथाभव्यत्वात्तेषां केषांचिद् भवेत्क्रियारुचिः। तया क्रियाकरण लिङ्ग पुनर्भवति धर्मबुद्धया । क्रियारुचिनिमित्तं यदुक्तं व्यक्तमिथ्यात्वमिति॥] ततोऽज्यच्चाव्यक्तं मिथ्यात्वम् । न चाभव्यस्य केंदाप्येकपुद्गलपरावर्तावशेषः संसार इति सदैव तस्याव्यक्तं मिथ्यात्वमवस्थितमिति चेद्, मैवम्, एवं सति चरमपुद्गलपरावर्तातिरि|क्तपुद्गलपरावर्तवतिनां भव्यानामप्यव्यक्तानाभोगमिथ्यात्वव्यवस्थितावाभिग्रहिकमिथ्यात्वोच्छेदप्रसङ्गात् । किंच-एवमनाभोगमिथ्या-18 त्वे वर्तमाना जीवा न मार्गगामिनो न वोन्मार्गगामिनो भवन्ति, अनाभोगमिथ्यात्वस्यानादिमत्त्वेन सर्वेषामपि जीवानां निजगृहकल्प
5