SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥३२॥ सटिप्पणा । खोपज्ञ वृत्तिः ॥ गाथा-८ ॥३२॥ तिबद्धाः स्व आत्मीयः पक्षोऽभ्युपगमः तेन प्रतिबद्धाः प्रतिहता यतस्तत इति । नयज्ञानानां मिथ्यात्वे तद्विषयस्य तदभिधानस्य च मिथ्यात्वमेव । अयं प्रमाणार्थः, सर्वनयवादाः, मिथ्याः, स्वपक्षेणैव प्रतिहतत्वात्, चौरवाक्यवत् । अथैवं तेषां प्रत्येकं मिथ्यात्वे. सर्वत्रापि सम्यक्त्वानुपपत्तिरित्याह-अन्योन्यनिश्रिताः-परस्परविषयापरित्यागेन व्यबस्थिताः, पुनः ते एव सम्यक्त्वस्य यथावस्थितवस्तुप्रत्ययस्य सद्भावा भवन्तीति । किन प्रत्येकमसतः समुदाये सत्त्वायोगादिस्युक्त, तदपि नैकान्तम्, तथाहि-यथा बहुमूल्यान्यपि रस्नान्यसमुदितानि 'रत्नावली' इति व्यपदेशं न लभन्ते, समुदितानि तु तान्येव 'रत्नावली' इति व्यपदेशं लभन्ते इति, तथा ते नयाः स्वविषयपरिच्छेदकत्वेन सुनिश्चिता अपि, इतरनयनिरपेक्षाः सम्यक्त्वं न प्राप्नुवन्ति स्वस्वस्थानविनियोगलक्षणविशेषे सति अन्योन्यसापेक्षतया त एवं सम्यक्त्वं लभन्त इति न कोऽपि दोषः । किन तवमतेऽपि द्वित्वादीनां प्रत्येक पर्याप्तिसम्वन्धेनासत्त्वेऽपि समुदाये तेन सम्बन्धेन सत्त्वाङ्गीकारात् । न च जातेः समवायेन एकव्यक्तिपर्याप्तत्वमुभयपर्याप्तत्वं तथा द्वित्वादीनामपीति तेषां समवायातिरिक्ततत्सम्बन्धस्वीकारे प्रमाणाभाव इति वाच्यं, एको द्वित्ववान् इति प्रत्ययवत् एको द्वौ इति प्रत्ययापत्तेः, एको न द्वित्ववान् इति प्रत्ययायाभाववत् एको न द्वौ इति प्रत्ययस्याप्यभावप्रसङ्गाच्च । न चैकत्वादेः न्यूनवृत्तितया द्वित्वव दानवच्छेदकत्वात् 'एको न द्वौ' इति प्रतीतिर्न स्यादेवेति वाच्यं, 'एको द्वित्ववान्' इति प्रतीतेः सर्वानुभवसिद्धतया तबलाद् न्यूनबृत्येकत्वस्यापि, आधारतावच्छेदकत्वसंभवात् । न हि कारणतावच्छेदकत्वादाविवाधिकरणतावच्छेदकत्वेऽपि अन्यूनानतिरिक्तवृत्तित्वं नियामकं, अन्यथा 'पृथिवी द्रव्यत्ववती पृथिवी नीलरूपवती' इत्यादिप्रमाणप्रतीतीनामपलापप्रसङ्गात्, पृथिवीत्वस्य द्रव्यत्वाधिकरणतान्यूनवृत्तित्वात, नीलरूपाधिकरणतातिरिक्तवृत्तित्वाच । तस्माद्विषयतावच्छेदकत्व इवाधिकरणतावच्छेदकत्वे. ऽप्यन्यूनातिरिक्तवृत्तित्व न नियामकम् । तस्मात् पर्याप्तिस्वीकार आवश्यकः । तेनैकत्वविशिष्टे पर्याप्तिसम्बन्धेन द्वित्वाभावात्तेन सम्बन्धेन द्वित्वबद्भेदसस्वाञ्चको द्वौ' इति प्रत्ययाभावः, एको न द्वाविति प्रत्ययश्चोपपद्यते इति भावः, आभिनिवेशिकस्य लक्षणमाह-विदुषोऽपीति-जानतोऽपीति तदर्थः, वि. पर्यस्तशाक्यादेरिति, विपर्यस्तः-भियादृष्टिः, एतद्विशेषणं स्वरूपोपबोधकं न तु व्यवच्छेदकम् । न च व्यभिचारे एव विशेषणस्य सार्थकतेति वाच्यम्, अविदितस्वभावस्य भावस्य स्वभावाविर्भावनायापि विशेषणस्याभिमतत्वात् । ननु पूर्वोक्तमिथ्यादृष्टीनां भगवच्छास्त्रेण बाधितार्थे श्रद्धानमस्तीत्यतिव्याप्तितादवस्थ्यमित्याह-सप्तमीत्यादि, मलाल्पतानिमित्तकत्वादिति लघुकर्मकारणकत्वात् । न्यापन्नदर्शननियतत्वाद् प्राप्तविगतसम्यग्दर्शनव्याप्यत्वात् । सकम्पप्रवृत्तिनिबन्धनत्वादिति सभयप्रवृत्तिहेतुत्वादिति-बाधितार्थ इतिशेषः । अत एव बाधितार्थे भयरहितप्रवृत्तित एव ॥ ८ ॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy