SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा सटिप्पणा ॥ खोपज्ञ वृत्तिः ॥ गाथा-८ ॥३२॥ ननु वेतण्डिकस्य स्वाभ्युपगतार्थश्रद्धानाभावेन तत्राग्याप्तिरित्याह-यद्यपि, स्वपक्षस्थापनाहीनकथा-वितण्डा सा अस्यास्तीति-वैतण्डिकः । स्वाभ्युपगतवितण्डावादार्थ इति-स्वाङ्गीकृतायां स्वपक्षस्थापनाहीनकथायां परपक्षदूषणमात्रपर्यावसानायामित्यर्थः । नाव्याप्तिरिति-न बैतण्डिकरूपे लक्ष्येऽवृत्तित्वमित्यर्थः । तत्र धर्मवादेन परीक्षापूर्व तत्त्वमाकलब्य स्वाभ्युपगतार्थश्रद्धावति जैने । नातिव्याप्तिरिति-नालक्ष्यरूपे तादृशजैने वृत्तित्वम् , तस्य श्रद्धानस्यानाकलिततत्त्वसम्बन्धित्वाभावादिति भावः । स्वकुलाचारेणैवेति-न तु गीतार्थसमाचारेणेति-एक्कारार्थः, तेन न 'जं च ण सुत्तेहिं बिहियं' इत्यादिना विरोध इति भावः । यद्यप्यत्र धर्मवादेन परीक्षापूर्वकाकलिततत्वस्वाभ्युपगतार्थश्रद्धानवति जनेऽतिव्याप्तिवारणं "अप्रज्ञापनीयताप्रयोजकम्,” इत्येतद्विशेषणेनैव संभवतीति 'अनाकलिततत्वस्येति' विशेषणमनर्थकं प्रतिभात्यापातदृशाम् , तथापि धर्मवादपूर्विकायाः परीक्षाया एव तत्र प्रयोजकत्वमिति तत्राप्रज्ञापनीयतायाः प्रयोजकत्वाभावेन न तद्विशेषणमनर्थकमिति सम्यगालोचनीयम् । असग्रहशक्त्यभावादिति-असद्मशक्तिनियतत्वादप्रज्ञापनीयताया इति भावः । णिययेत्यादिसम्मतिगाथाया अर्थस्वेवम् ॥ निजकवचनीये स्वविषये परिच्छेद्ये, सत्याः सम्यग्ज्ञानरूपाः, सर्व एव नयाः संग्रहादयः, तद्वति तदवगाहित्वात् । परविचालने परविषयोत्खनने, मोहा मुह्यन्तीति मोहा असमर्थाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात्, मिथो नान्तरीयकत्वात् । अत: परविषयस्याभावे स्वविषयस्याप्यसत्वात् तत्प्रत्ययस्य मिथ्यात्वमेवेत्यवधारयन् दृष्टसमयो ज्ञातानेकान्तः पुनस्तान् नयान् न विभजते सत्यानलीकान् वा, किन्वितरनयविषयसव्यपेक्षया 'अस्त्येव न्यार्थतः' इत्येवं भजनया स्वनयामिप्रेतमर्थ सत्यमेवावधारयति, यद् यत्र यदपेक्षयास्ति तस तत्र तदपेक्षया ग्राहकत्वेनैव नयप्रामाण्यात् । अत एव द्रव्यास्तिकादेः प्रत्येकमित्यरूपतया सत्त्वम्, अनित्थरूपतया चासत्त्वं । ननु यदि च संग्रहादेः प्रत्येकं मिथ्यात्वं तदा सिकतासमुदाये तैलबत् तत्समुदाये स्वस्वस्थान विनियोगलक्षणविशेषे सत्यपि सम्यक्त्वं कथं स्यात् ? प्रत्येकमसतः समुदाये सवायोगात्, इति चेत्, न, न झन दलप्रचयलक्षणः समुदाय उच्यते संग्रहादेईलस्वाभावात्, इतरेतरविषयापरित्यागवृत्तीनां ज्ञानानां समुदायसंभवात्, क्वचित् ऋमिकतत्समुदायस्याव्यापकत्वाच्च, किन्वितरनयविषयीकृतरूपाव्यवच्छेदकत्वम्, तदेव चान्योन्यनिश्रितत्वं गीयते । इदमेव च प्रवृत्तिनिमित्तीकृत्य तत्र सम्यक्त्वपदं प्रवर्तते, तदिदमुक्तम्-तम्हा सव्वेवि णया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोण्णणिस्लिा उण हवंति सम्मतसम्भावा ॥१॥ अस्यार्थः, यस्माद् एकान्तनित्यानित्यत्वाभ्युपगमे बन्धमोक्षादिव्यवस्थानुपपत्तिः, तस्माद् मिथ्यादृष्टयः सर्वेऽपि नयाः स्वपक्षण
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy