SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥३०॥ सटिप्पणा ॥ खोपन | तिः ॥ गाथा-८ ॥३०॥ मुग्धलोकानां च । यद्यपि मापतुषादिकल्पानां साधूनामपि साक्षात्त्वाप्रतिपत्तिरस्ति, तथापि तेषां गीतार्थनिश्रितत्वात्तद्गततत्वप्रतिपत्तिः परम्परया तेष्वपि सत्त्वान्न तत्रातिव्याप्तिः। तत्त्वाप्रतिपत्तिश्चात्र संशयनिश्चयसाधारणतत्त्वज्ञानसामान्याभाव इति न सांशयिके तिव्याप्तिरिति दिक् । एतच्च पञ्चप्रकारमपि मिथ्यात्वं भव्यानां भवति । अभव्यानां त्वाभिग्रहिकमनाभोगो वेति द्वे एव मिथ्याले स्याताम्, न त्वनाभिग्रहिकादीनि त्रीणि अनाभिग्रहिकस्य विच्छिन्नपक्षपाततया मलाल्पतानिमित्तकत्वाद्, आभिनिवेशिकस्य च व्यापनदर्शननियतत्वाद्, सांशयिकस्य च सकम्पप्रवृत्तिनिबन्धनत्वाद्, अभव्यानां च बाधितार्थे निष्कम्पमेव प्रवृत्तेः, अत एव भव्याभव्यत्वशङ्कापि तेषां निषिद्धा । तदुक्तमाचारटीकायाम्-"अभव्यस्य भव्याभव्यत्वशङ्काया अभावाद्” इति ॥८॥ (टि०) कि मूलमिति किं शब्दो जिज्ञासायां मूलं कारणम्, तथाचाशुभानुबन्धजनकतावच्छेदकावच्छिन्नं ज्ञानं जायतामित्याकारिका जिज्ञासा । के च तद्देदा इति-अत्रापि किमः पूर्ववत्, तद्भेदाः-अशुभानुबन्धजनकविशेषाः । तद्धेतृत्वात्-तादृशानुबन्धजनकत्वात्, अन्यथा-मिथ्यात्वस्य तादृशानुबन्धाजनकत्वे । दोषव्यामूढतानुपपत्तरिति-दोषे दोषविषयका व्यामूढता-वि-विशेषेण आ समन्तात् मूढता पूर्ववर्णितलक्षणमूढस्वभावः तस्या अनुपपत्तिः अघटमानता तस्याः । तथा च बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्ति प्रति प्रयोजकत्वेन उत्कटहिंसादिदोषे बलवदनिष्टानुबन्धित्वस्यैव सत्वात् विषयाभावात् म तादशज्ञानं शक्यं मिथ्यात्वं विना, तादशज्ञानं विना च तदशहिंसादिदोषे प्रवृत्तिरेव न स्यादिति प्रवृत्तेरन्यथानुपपत्या मिथ्यात्वस्य तादृशानुबन्ध प्रति हेतुत्वस्यावश्यस्वीकार्यत्वादिति भावः । तादृशानुबन्धहेतुत्वस्य विभागमाह-तच्चेति मिथ्यात्वज । पञ्चेति-पञ्चप्रकारा यस्य तद् । ननु विशेषधर्मप्रकारकज्ञानानुकूलण्यापाररूपस्य विभागस्य विशेषधर्मजिज्ञासायां सत्यामेव सार्थकत्वम्, विशेषधर्मजिज्ञासा तु सामान्यधर्मज्ञाने सत्येव भवतीति मिथ्यात्वसामान्यधर्मज्ञाने सत्येव मिथ्यावविशेष जिज्ञासा, इह च तत् सामान्यलक्षणस्यानुक्तत्वात् 'तच्च पञ्चप्रकारम्' इति विभागोऽनुपपन्न इत्याहयद्यपि अनाकलिततत्त्वस्येति-अनाकलिततत्वसम्बन्धी षष्ठीविभक्तेः सम्बन्धसामान्ये शक्तत्वात, सम्बन्धिनि लक्षणया बोधः तस्य श्रद्धानान्तपदार्थेन सहामेदेनान्वयो निपातातिरिक्तनामार्थयो/दानान्वयबोधस्याव्युत्पनत्वात् । अत्र दृष्टान्तमाह पथा बौद्धसांख्यादीनामिति-आदिना वैशेषिकप्रभृतिपरिग्रहः ।
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy