SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२५॥ प्यनाभोगात्प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दृष्टावतिव्याप्तिः, अनाभोगाद् गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्धानभणनात् । तथा चोक्तमुत्तराध्ययननिर्युक्तौ - "सम्मद्दिड्डी जीवो, उवइटुं पवयणं तु सद्दहह । सद्ददइ असम्भावं, अणाभोगा गुरूणिओगा वा ॥ | १ ||" [सम्यग्दृष्टिर्जीव उपदिष्टं प्रवचनं तु श्रद्धत्ते । श्रद्धते असद्भावमनाभोगाद् गुरुनियोगाद्वा ॥] इति तद्वारणाय स्वरसवाहीति सम्यग्वक्तुवचनानिवर्त्तनीयत्वं तदर्थः । अनाभोगादिजनितं मुग्धश्राद्धादीनां वितथश्रद्धानं तु सम्यग्वक्तृवचन निवर्त्तनीयमिति न दोषस्तथाऽपि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयान्यतरस्य वस्तुतः शास्त्रबाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थं विदुषोऽपीति-शास्त्रतात्पर्यबाधप्रतिसन्धानवत इत्यर्थः । सिद्धसेनादयश्च स्वस्वाभ्युपगतमर्थ शास्त्रतात्पर्यबाधं प्रति सन्धायापि पक्षपातेन न प्रतिपन्नवन्तः किन्त्व विच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसन्धायेति न तेऽभिनिवेशिनः । गोष्ठा माहिलादयस्तु शास्त्रतात्पर्यवाधं प्रतिसन्धायैवान्यथा श्रद्धत्ते इति न दोषः ३ || भगवद्वचनप्रामाण्यसंशयप्रयुक्तः शास्त्रार्थसंशयः सांशयिकम् ॥ यथा सर्वाणि दर्शनानि प्रमाणं कानिचिद्वा, इदं भगवद्वचनं प्रमाणं नवेत्यादि संशयानां मिध्यात्वप्रदेशोदयनिष्पन्नानां साधूनामपि सूक्ष्मार्थसंशयानां मिथ्यात्वभावो मा प्रासाङ्गीदिति भगवद्वचनप्रामाण्यसंशय: प्रयुक्तत्वं विशेषणम् । ते च नैवंभूताः, किन्तु भगद्वचनप्रामाण्यज्ञान निवर्तनीयाः, सूक्ष्मार्थादिसंशये सति " तमेव सच्च णीसंकं जं जिणेहिं पवेइयं" [तदेव सत्यं निःशङ्कं यज्जिनैः प्रवेदितम् । ] इत्याद्यागमोदित भगवद्वचनप्रामाण्यपुरस्कारेण तदुद्धारस्यैव खाध्वाचारस्वात् । या तु शङ्का साधूनामपि स्वरसवाहितया न निवर्तते सा सांशयिकमिध्यात्वरूपा सत्यनाचारापादिकैत्र । अत एव कङ्ग्रामोहोदयादाकर्षप्रसिद्धिः ४ ॥ साक्षात्परम्परया च तच्चाप्रतिपत्तिरनाभोगम् ॥ यथै केन्द्रियादीनां तच्चातच्चानध्यवसाय व तां सटिप्पणा ॥ खोपज्ञ वृत्तिः ॥ गाथा-८ ॥२९॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy