SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२८॥ - इख्यादीनां स्वस्वदर्शनप्रक्रियावादिनाम् । यद्यपि वैतण्डको न किमपि दर्शनमभ्युपगच्छति, तथाऽपि तस्य स्वाभ्युपगतवितण्डावादार्थ एव निग्रहवत्वादाभिग्रहिकत्वमिति नाव्याप्तिः । अनाकलिततत्त्वस्य इति विशेषणाद् यो. जैन एव धर्मवादेन परीक्षापूर्व तत्त्वमा कलय्य स्वाभ्युपगतार्थं श्रद्धत्ते तत्र नातिव्याप्तिः । यस्तु नाम्ना जैनोऽपि स्वकुलाचारेणैवागमपरीक्षां बाधते तस्याभिग्रहिकत्वमेव, सम्यग्दृशोऽपरीक्षित पक्षपातित्वायोगात् । तदुक्तं हरिभद्रसूरिभिः । " पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥ १ ॥ " इति । यथागीतार्थी गीतार्थनिश्रितो माषतुषादिकल्पः प्रज्ञापाटवाभावादनाकलिततत्त्व एव स्वाभिगतार्थ जैनक्रियाकदम्बकरूपं श्रद्धत्ते तस्य स्वाभ्युपगतार्थश्रद्धानं नाप्रज्ञापनीयताप्रयोजकम् असद्ग्रहशक्त्यभावात्, किन्तु गुणवदाज्ञाप्रामाण्यमूलत्वेन गुणवत्पारतन्त्र्यप्रयोजकमित्यप्रज्ञापनीयताप्रयोजकत्व विशेषणान्न तत्रातिव्याप्तिः १ ॥ स्वपराभ्युपगतार्थयोरविशेषेण श्रद्धानमनाभिग्रहिकम्। " यथा सर्वाणि दर्शनानि शोभनानि इति प्रतिज्ञावतां मुग्धलोकानाम् । यद्यपि परमोपेक्षावतां निश्चयपरिकर्मितमतीनां सम्यग्दृष्टीनां स्वस्वस्थाने सर्वनयश्रद्धानमस्ति, शिष्यमतिविस्फारणरूपकारणं विनैकतरनयार्थनिर्द्धारणस्याशास्त्रार्थत्वात् । तदाह सम्मतौ सिद्धसेनः - "णिययवय णज्ज सच्चा, सव्वणया परवियालणे मोहा । ते पुण न दिट्ठसमयो विभयह सच्चे लिए वा ॥ १ ॥ " [ निजकवचनीयसत्याः सर्वनयाः परविचालने मोहाः । तान् पुन र्न दृष्टसमयः विभजति सत्यान्वाऽलीकान्वा ] तथाऽपि स्वस्वस्थान विनियोगलक्षणेन विशेषेण तेषां सवनयश्रद्धानमस्तीति नातिव्याप्तिः २ ।। " विदुषोऽपि स्वरसवाहि भगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानमाभिनिवेशकम् । स्वस्वशास्त्रबाधितार्थश्रद्धानं विपर्यस्तशाक्यादेरपीति तत्रातिव्या प्तिवारणाय भगवत्प्रणीतत्वं शास्त्रविशेषणम् । भगवत्प्रणीतशास्त्र बाधितार्थ श्रद्धानमिति सप्तमीगर्भसमासान्नातिव्यासितादत्रस्थ्यम्, तथा सटिप्पणा ॥ स्वोपज्ञ वृति ॥ गावा ८ ॥२८॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy