SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२७॥ सटिप्पणा. | ॥ खोपज्ञ वृत्तिः ॥ गाथा-८ ॥२७॥ इति । यदागमे-दशवकालिकपञ्चमाध्ययन द्वितीयोदेशके, तवतेणेत्ति-"तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे अ, कुब्बई देवकिविसं ॥१॥"इति पूर्वगाधया सहकवाक्यत्वात् न केवलं निव एव अधिकृतः, किन्तु तपस्तेनादीनामुत्कृष्टफलप्राप्तिप्रदर्शनपरमेव तदिति भावः। तपस्तेनादीनां स्वरूपं त्वेवं, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह-अहम्, अथवा वक्ति-साधव एव क्षपकाः, तूण्णी वाऽऽस्ते, एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित् केनचित् पृष्ट इति, एवं रूपस्तेनो-राजपुत्रादितुल्यरूपः, एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति, भावस्तेमस्तु परोत्प्रेक्षितं कथञ्चित किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मर्यतत्प्रपञ्चेन चर्चितमित्याहेति । इति से परस्सेत्यादि आचारामथमश्रुतस्कन्धद्वितीयाध्ययनतृतीयोद्देशके. तत्र समूढेत्ति-रागद्वेषामिभूतत्वात्कार्याकार्यपराङ्मुखः ॥ एष मृढ इति शेयो विपरीतविधायकः ॥१॥ अनन्तसंसारिताऽशुभानुबन्धयोगादित्युक्तम्,अथाशुभानुबन्धस्य किं मूलम् ? के च तद्भेदाः ? इत्याहतम्मूलं मिच्छत्तं, आभिग्गहिआइ तं च पंचविहं। भव्वाणमभव्वाणं, आभिग्गहिअं वणाभोगो ॥८॥ [तन्मूलं मिथ्यात्वमाभिग्रहिकादि तच्च पञ्चविधम् । भत्र्यानाम्, अभव्यानामाभिग्रहिकं वाऽनाभोगः ॥ ८ ॥] तम्मूलंति । तस्यानन्तसंसारहेत्वशुभानुबन्धस्य मूलं मिथ्यात्वम्, उत्कटहिंसादिदोषानामपि मिथ्यात्वसहकतानामेव तद्धेतुत्वात, अन्यथा दोषण्यामूढताऽनुपपत्तेः। तचाभिग्रहिकादिकं पञ्चविधम् आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिककमनाभोगं चेति पञ्चप्रकारम् । यद्यपि जीवादिपदार्थेषु तत्वमिति निश्चयात्मकम्य सम्यक्त्वस्य प्रतिपक्षभूतं मिथ्यात्वं द्विविधमेव पर्यवस्पति-जीवादयो न तत्वमिति विपर्यासात्मकं १।। जीवादयस्तत्वमिति निश्चयाभावरूपानधिगमात्मकं च २।। तदाह वाचकमुख्यः "अनधिगमविपर्ययौ च मिथ्यात्वम्" इति, तथापि 'धर्मेऽधर्मसंज्ञा' इत्येवमादयो दश मेदा इवोपाधिभेदात्पश्चैते भेदाः शास्त्र| प्रसिद्धाः। तत्राभिग्रहिकम्-अनाकलिततत्त्वस्याप्रज्ञापनीयताप्रयोजकस्वस्वाभ्युपगतार्थश्रद्धानम्। यथा बौद्धसा
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy