________________
1-
धर्मपरीक्षा ल ॥२६॥
94
सटिप्पणा । खोपज्ञ दृत्तिः ॥ गाथा-७ | ॥२६॥
टि० तत्कथमिति-तस्मात्कथम् । तीव्राध्यवसायवतामपीति-अजीवाध्यवसायबतां तु न स्यादेवेत्यपिशब्दार्थः । स्वेच्छानुरोधादिति-उपरजकं तादृशसंक्लिष्टाध्यवसायवतां तस्य नियमेन सत्वात् । बध्यमानप्रकृतिषु-बध्यमानकर्मपुद्गल विशेषेषु । तज्जननशक्तिरूपस्य-अनन्तसंसारजननशक्तिलक्षणस्य, ग्रन्थिमेदादिति कर्मविशेषजनितो महानिबिडरागद्वेषपरिणामः कर्कश निविडचिरप्ररूढगुपिलवक्रग्रन्थिवदुर्भेद्योऽमिनपूर्वो प्रन्थिः, तस्य भेदो नाम समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरेण निशितकुठारधारयेव परमविशुद्धया समतिक्रमणम् स च केनचिद् महानुभागेनासनपरमनिर्वृतिसुखेनैव कतुं शक्य इति तस्मात् । प्रागति पूर्वकालेऽपि । प्रतिपातेन-नाशेन सम्यग्दर्शनस्येतिशेषः । तत एवेति-क्लुप्तहेतुताकाशुभानुबन्धादेव । अनन्तसंसारसम्भवात्-अनन्तसंसारमाप्तिसम्भवात्, तथा च क्लुप्तकार्यकारणभावेन निर्वाहेऽन्यकार्यकारणभावकरुपनायां प्रमाणाभावाद्, गौरवाञ्चेति भावः । उक्तार्थे पूर्वाचार्यसम्नतिमाहगठीइत्ति-अस्थायमर्थः-ग्रन्थेरुक्तस्वरूपात्, आरतोऽपि-तस्मिन्नमिन्ने सति किं पुनर्भिन्नग्रन्थौ, अशुभानुबन्धतोऽनन्तसंसार इत्यपिशब्दार्थः, हु खलु निश्चये, असकृद् अनन्तवारान्, बन्धो ज्ञानावरणादीनां कर्मणां स्वीकारः, न नैव, अन्यथाऽशुभानुबन्धं विना भवति, अनुरूपकारणप्रभवत्वात् सर्वकार्याणाम् । तत्-तस्मात्. पषोऽप्यसकृद्बन्धः, न केवलं यतोऽसौ प्रवृत्त इत्यपि शब्दार्थः, हु स्फुटम्, एवमशुभानुबन्धमूलत्वेन ज्ञेयोऽशुभानबन्ध इति, कार्यकारणयोर्मद्घटयोरिव कथञ्चिदभेदात् । तस्मात् कारणकृतस्य कार्यभूतस्य चाशुभानुबन्धस्य त्रोटने प्रयत्नो विधेय इति । अनुपदोक्कमेवार्थ स्पष्टयति ततश्चेति-तसाद्, बन्धमात्रात्-अशुभबन्धसामान्यात् । अनुबन्धादिति-अशुभानुबन्धात् । अत एव-अशुभानुबन्धादेवानन्तसंसारितासिद्ध सत्यव, यावदिति-मर्यादायामिति, तथा च केवलमनन्तभववेद्यनिरूपक्रमकर्मबन्धे सति न तूपक्रमणीयस्वभावकर्मबन्धे सतीति केवल शब्दार्थः, तनिःशेषतापर्यन्तं प्रायश्चित्तप्रतिपत्तिविषयकाध्यवसाय एव न भवति । एतेन पूर्वाचार्यवचनेन । जावाउ इति, "जावाउ सावसेसं, जाव य थेवो वि भस्थि ववसाओ। ताव करिजप्पहियं, मा ससिराया व सोचिहिसि" ॥१॥ इति भगवद्धस्तदीक्षितधर्मदासगणिकृतोपदेशमालीयगाथायाः "प्रमादो न कार्य" इत्येवार्थे तात्पर्यमिति । न तुइह भव एवं प्रायश्चित्तप्रतिपत्तिन तु भवान्तरे' इत्यर्थे तात्पर्यमिति भावः ॥ व्यक्कामसंलग्नकतामिति-स्पष्टामसङ्गतिम् निरस्तो बोध्य इति, भयमाशयः, अथ प्रमादो मा विधेय इत्यर्थे एव तात्पर्यम् न तु इहभवेत्याद्यर्थे इति कथं ज्ञातमिति चेद, न, सब्वावि ह पवजा इत्यादि पूर्वाचार्यवचनस्य इह भवेत्याचर्थे तात्पर्यत्वे बाधकत्वेन प्रमादो मा विधेय इत्यर्थे तात्पर्यस्वे बाधकामावरूपावि निगम (वन निरस्त