________________
सटिप्पणा । खोपज्ञ वृत्तिः ॥ गाथा-७ ॥२३॥
स्थानस्यानालोचिताप्रतिक्रान्ता कालमासे कालं कृत्वा०] इत्यादिवचनात् तद्भावानालोचितपार्श्वस्थत्वादिनिमित्तपापानां भवान्तर एवं धर्मपरीक्षा
प्रायश्चित्तप्रतिपत्तिः। “कालीणं भंते! देवी ताओ देवलोगाओ अणंतरं उच्चहित्ता कहिं गच्छिहिति? कहिं उववजिहिति? । गोयमा! Pमहाविदेहवासे सिज्झिहिति ॥" [काली भगवन् देवी तस्माद्देवलोकादनन्तरमुत्वृत्य कस्यां (गतौ) गमिष्यति, कस्यामुत्पत्स्यते ? ।
गौतम महाविदेहवर्षे सेत्स्यतीति ॥] इत्यादिवचनात्तासां भवान्तर एवं पूर्वभवाचीर्णपार्श्वस्थत्वादिजातपापकर्मप्रायश्चित्तभणनात् ।"सव्वा दाबि हु पन्वज्जा पायच्छित्तं भवंतरकडाणं पाषाणं कम्माणं " [सर्वाऽपि खलु प्रव्रज्या प्रायश्चित्तं भवान्तरकृतानां पापानां कर्मणाम् । ] |
इत्यादिपूर्वाचार्यवचनात्प्रव्रज्याया एव भवान्तरकृतकर्मप्रायश्चित्तरूपत्वाद् । एतेन 'कृतस्य पापस्य प्रायश्चित्तप्रतिपत्तिस्तस्मिन्नेव भरे भवति न पुनः जन्मान्तरेऽपि' इति वदन् तत्र “जावाउ सावझेसं” इत्यादिसम्मतिमुद्भावयन् व्यक्तामसंलग्नकतामनवगच्छन्निरस्तो बोध्यः । अथ पूर्वभवकृतपापपरिज्ञानाभावात्कुतस्तदालोचनम् ? कुतस्तरां च तत्प्रायश्चित्तम् ? इति चेत , न, एतद्भवकतानामपि विस्मृतानामिव पूर्वभवकृतानामपि पापानां सामान्यज्ञानेनालोचनप्रायश्चित्तसम्भवात् , अत एव मिथ्यात्वहिंसादेः पारभवि
कस्यापि निन्दागर्दादिकम् ।" इहमवियमनभवियं, मिच्छत्तपवत्तणं जमहिगरणं । जिणपवयणपडिकुटुं, दुटुं गरिहामि तं पावं ॥१॥" द ईहभविकमन्यभविकं मिथ्यात्वप्रवर्तनं यदधिकरणम् । जिनप्रवचनप्रतिक्रुष्टं दुष्टं गहें तत्पापम् ॥ ] " इहं भवे अन्नेसु वा भवग्गह
णेसु पाणांइवाओ कओ वा काराविओ वा कीरंतो वा परेहिं समणुण्णाओ तं निंदामि गरिहामि" [ इह भवे अन्येषु वा भवग्रहणेषु प्राणातिपातः कृतो वा कारितोषा क्रियमाणो वा परैः समनुज्ञातस्तं निन्दामि गहें ।] इत्यादि चतुःशरणप्रकीर्णकपाक्षिकसूत्रादावुक्तम् । पापप्रतिघातगुणबीजाधानसूत्रे हरिभद्रसूरिभिरप्येतद्भवसम्बन्धि भवान्तरसम्बन्धि वा पापं यत्तत्पदाभ्यां परामृश्य