SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ २१ ॥ कथं मिथ्यात्वं बध्नाति ?, अन्रोच्यते, शासनमालिन्योत्पादनावसरे मिथ्यात्वोदयान्मिथ्यादृष्टिरेवासावतो मिध्यात्वबन्ध इति । अभिव्यञ्जकतया उत्पाद कतया । तथाभावात् विषमविपाक हेतुत्वात् । अयमिति अतिसंक्लेशः, अनिवारित एव निवारयितुमशक्य एव । अत एव मोहोत्कर्षादेव । उक्तार्थ पूर्वाचार्यसम्मतिमाह भावशुद्धीत्यादिना - अर्थवेवं, भावशुद्धिः मनसोऽसंक्लिश्यमानता या परौर्विरुद्रदानादौ धर्मव्याघातपरिहारनिबन्धनतया कल्पिता साऽपि न केवलं धर्मव्याघात एव शेय इति अपि शब्दार्थ, ज्ञेया ज्ञातव्या या एषा वक्ष्यमाणस्वरूपा नाम्या, तामेवाह, मार्गे जिनोक्तं ज्ञानादिकं मोक्षपथमनुसरत्यनुगच्छत्येवं शीला मार्गानुसारिणी, अथ परो ब्रूयात्, सैषा ममेत्याह, प्रज्ञापना आगमार्थोपवेशनं सा प्रिया वल्लभा यस्यां भावशुद्धी सा प्रज्ञापनाप्रिया, अत्यर्थ अतिशयेन, उक्तस्यैवार्थस्य व्यतिरेकमाह, न नैव, पुनःशब्दः पूर्वोक्तार्थापेक्षया प्रकृतार्थस्य विलक्षणताप्रतिपादनार्थः स्वः, स्वकीयो न तु शास्त्रीयः, स चासावाग्रहश्वार्थाभिनिवेशः स्वाग्रहः स एवात्मा स्वभावो यस्याः सा स्वाग्रहारिमकेति ॥ १॥ अथ कस्मात् स्वाग्रहात्मिकापि भावशुद्धिर्न भवतीति ?, अश्रोच्यते, भावशुद्धि विपर्यय भूतभावमालिन्यरूपत्वात् स्वाग्रहस्येत्येतदेव दर्शयन्नाह, रागेत्यादिना रागोऽभिव्यङ्गलक्षणः, द्वेषोऽप्रीतिरूपः, मोहश्च अज्ञानलक्षणश्च चशब्दौ समुच्चयार्थी, एते त्रयोऽपि भावमालिन्य हेतवः आत्मपरिणाम शुद्धिनिबन्धनानि स्वाग्रहादिभाव कारणानीति गर्भः, एतेषां रागादीनां उत्कर्ष उपचय इति एतदुस्कर्ष:, तस्माद् एतदुत्कर्षतः, ज्ञेयो ज्ञातव्यः हन्त इति प्रत्यवधारणार्थः कोमलामन्त्रणार्थीवा, उत्कर्ष उपचयः, कस्येत्याह, भावमालिन्यस्य स्वाग्रहादिरूपस्य तत्त्वतः परमार्थवृस्येति ॥ २ ॥ ततः किमित्याह । तथा तेन प्रकारेण रागाद्युत्कर्षलक्षणेन, उत्कृष्टे उस्कटे, चशब्दः पुनरर्थः, सति भवति, अस्मिन् रागादिहेतुके स्वाग्रहादिरूपे भावमालिन्ये, शुद्धिः शुद्धत्वम्, भावस्येति गम्यते, वैशब्दो वाक्यालङ्का रार्थः शब्द एवाभिधानमेव शब्दमात्रं तदेव कुत्सितमेव शब्दमात्रकं निरभिधेयमित्यर्थः, मालिन्योत्कर्षे सति नास्ति भावशुद्धिर्नालिन्यस्य तद्विरुद्वस्वरूपत्वादद्मिसद्भावे शीतवदिति भावना । अथ मालिन्ये सत्यपि शुद्धिरिष्यते ततः कथं शब्दमात्रत्वमस्या इत्यत्राह स्वबुद्धया प्रमाणापरतन्त्रया मत्या, कल्पना क्लृप्तिः, सेव शिल्पं चित्रादिकौशलं, तेन निर्मितं विरचितं स्वबुद्धिकल्पनाशिल्पनिर्मित ग्रच्छदरूपं तदिति गम्यम्, न नैव, अर्थवत् साभिधेयम्, भवेत् जायेतेति । अपवादलक्षणमिति - अपवदतीत्येवंस्वरूपम् । संविग्नपाक्षिकातिरिक्तस्येति विशेषणस्य स्वरूपोपधायकत्वम् । नियामकेति द्वितीयबालता नियतोत्सूत्रसद्भावात् तस्य तादृशपार्श्वस्यादेः, तदनियम एव अनन्तसंसारस्य नियमाभाव एव अविशेषादिति शेषः । भवभेदस्य संख्यासंख्यानन्तभवविशेषस्य । भावभेदनियतत्वात् - अध्यवसाय विशेषव्याप्यत्वात् ॥ ६ ॥ सटिप्पणा ॥ स्वोपज्ञ वृत्तिः ॥ गाथा- ६ ॥२१॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy