SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ +ACCR सटिप्पा धर्मपरीक्षा ॥२०॥ 1-73% टिक सामान्यत पवेति-अनन्तसंसारस्वोत्सूत्रभाषणस्वसामान्ययोरेवेति, अत्र चैवकारेण विशेषकार्यकारणभावस्य व्यवच्छेदादिति भावः । तत्रेति-उत्सूत्रभाषणे । अनियतहेतुकत्वप्रसङ्गादिति-उपलक्षणं तेनानन्तसंसारत्वस्य कार्यमात्रवृत्तिजातितया तस्य कार्यतावच्छेदकत्वनियमेन "यद्विशेषयोः कार्यकारणभावः तस्सामान्ययोरपि” इति न्यायात् तदवच्छिन्नं प्रति कस्यचिदेकस्य कारणस्वरूपनस्यावश्यकस्वादित्यर्थः । अप्रयोजकत्वमिति-नियतोत्सूत्रभाषित्वमस्तु अनन्तसंसाहित्वं तु मास्तु इति विपझे बाधकरूपप्रयोजकाभावात् ॥ न च निरुपाधिस्वमेवप्रयोजकत्वमस्त्विति वाच्यम्, अध्यवसायविशेषस्यै वो- ॥ खोपन्न पावित्वात् । नियामकं-कारणम् । ननु तीवाध्यवसायसहकृतायास्तापाबकाया वा पापक्रियाया अनन्तसंसारहेतुस्वमुक्तं, तच्चासत, उभयपक्षेपि तादृशाध्य | वृत्तिः ॥ बसायसहकृतपापक्रियायाः पापक्रियासहकृततादृशाववसायस्य वा तादृशाध्यवसायपूर्विकायाः पापक्रियायाः पापक्रियापूर्वकतारशाध्यवसायस्य वा इत्यत्रात गाथा-६ विनिगमनाविरहेण गुरुभूतद्वयहेतुत्वस्वीकारेण गौरवात् । इति चेन्न, वाकारस्यानुक्तसमुच्चयार्थकस्वीकारेण तादृशाध्यवसायस्य पापक्रियायाश्च स्वातन्त्र्येणैव ॥२०॥ हेतुत्वस्वीकारात् । ननु स तीब्राल्यवसायः केषां भवतीत्याह स चेति-शासनेत्यादीति-शासनस्य-जिनप्रवचनस्य मालिन्यं लोकविरुद्धाचरणेनोपघातः तस्य निमित्तभूता या प्रवृत्तिः सा च येषामस्ति तेषां । अनाभोगेनापि किंपुनराभोगेनेत्यर्थः । शासनमालिन्यप्रवृत्तौ-शासनमालिन्यप्रवृत्तिनिमित्तेति महामिथ्यात्वार्जनेति-महामिथ्यात्वप्राप्तिरिति । तथा च शासनमालिन्यप्रवृत्तेर्महामिथ्यात्वहेतुत्वादिति भावः। उक्तार्थे पूर्वाचार्यसंमतिमाह-तदुक्तमित्यादिना-य इति-अयंभावः-यः कोपि श्रमणादिः शासनस्य जिनप्रवचनस्य मालिन्ये लोकबिरुद्धाचरणेनोपघातेऽनाभोगेनापि-अज्ञानेनापि किं पुनराभोगेन वर्त्तते व्याप्रियते स पूर्वोक्तः प्राणी तेन जिनशासनमालिन्येन करणभूतेन मिथ्यात्वहेतुः-विपरितबोधजनक इति तन्मिथ्यात्वहेतुः तस्य तत्त्वम् । अथवा तस्मिन् जिनशासनविषयकमिथ्यात्वहेतुत्वं मिथ्यात्वभावजनकत्वं, तस्मात् तन्मिथ्यात्वहेतुत्वात्, केषां अन्येषां स्वात्मन्यतिरिक्तानां-ये हि तस्यासदाचारेण परमपवित्रं जिनशासनं हीलयन्ति तेषाम्, प्राणिनां जीवानां, ध्रुवं अवश्यतया, बध्नात्यपि स्वात्मप्रदेशेषु सम्बन्धयस्यपि, न केवलं तेषां तजनयति तदेव मिथ्यात्वमोहनीय कमैंव यदन्यप्राणिनां जनितं न त्वन्यच्छुभं कर्मान्तरम् । अलं अत्यर्थ निकाचनादिरूपेण, परं संसारकारणं भवहेतुं, विपाकदारुणं विपाके विपाकविषये दारुणं तीवरस, घोरं भयानकं नाममात्रेणापि दुःखदायक, सर्वानर्थनिबन्धनं निखिलप्रत्यूहजनकं, सर्वानविवर्धनमिति पाठे तु सर्व प्रत्यूह विशेषेण वर्धयति निखिलप्रत्यूहानां परम्पराजनकमिति यावत् । ननु मिथ्यात्वप्रकृतेरेव मिथ्यात्वहेतुकरवाद् सम्यग्दृष्टिः A 4%95 C
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy