SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ १९ ॥ संयमानुष्ठानेन पराक्रममाणाः कस्यचिद्विश्रान्तभागधेयतया 'अशीला एते' इत्येवमनुवदतो अनु पश्चाद् वदतः पृष्ठतोऽपवदत्तः, अन्येन वा मिथ्यादृष्ट्यादिना कुशीलाः इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेर्द्वितीयैषा मन्दस्याज्ञस्य बालता - मूर्खता । एकं तावस्वतश्चारित्रापगमः पुनरपरानुकविहारिणोऽपवदतीत्येषा द्वितीया बालता । यदि वा शीलवन्त एते, उपशान्ता वा ' इत्येवमन्येनाभिहिते 'क्वैषां प्रचुरोपकरणानां शीलवतोपशान्तता वा' इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति । अपरे तु वीर्यान्तरामोदयात्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यधावस्थितमाचारगोचरमावेदयेयुरिति, एतद्दर्शयितुमाह- णिअट्टमाणा इत्यादि । एके कर्मोदयात्संयमान्निवर्तमाना लिङ्गाद्वा वाशब्दादनिवर्तमाना वा यथावस्थितमाचारगोचरमाचक्षते । 'वयं तु कर्तुमसहिष्णवः, आचारस्त्वेवम्भूतः इत्येवं वदतां तेषां द्वितीयबालता न भवत्येव । न पुनर्धदन्ति एवंभूत एव आचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुःषमानुभावेन बलाद्यपगमान्मध्यमभूतैव वर्तिनी श्रेयसी नोत्सर्गावसर इति । उक्तं हि - " नात्यायतं न शिथिलं, यथा युञ्जीत सारथिः । तथा भद्रं वहन्त्यश्वा योगः सर्वत्र पूजितः ॥ १ ॥" अपि च - " जो जत्थ होइ भग्गो, ओगासं सो परं अविन्दतो । गंतु तत्थ वयंतो, इमं पहाणंति घोसे ||२||" इत्यादि (यो यत्र भवति भग्नोऽवकाशं स परमविन्दमानः । गन्तुं तत्र ब्रजन् इदं प्रधानमिति घोपयति ।। ) किंभूताः पुनः ? एतदेव समर्थयेयुरित्याह- नाणभट्टा । सदसद्विवेको ज्ञानं तस्साष्टद्धा ज्ञानभ्रष्टाः । तथा दंसणलूसिणोत्ति । सम्यग्दर्शन विध्वंसिनोऽसदनुष्ठानेन खतो विनष्टाः, अपरानपि शङ्कोत्पादनेन सन्मार्गाच्च्यावयन्तीति । तथा च संविनपाक्षिकातिरिक्तस्य पार्श्वस्थादेरपि द्वितीय बालता नियामकनियतोत्सूत्रसद्भावात् तस्यानन्तसंसारानियमान्निन्हवस्यापि तदनियम एव भवभेदस्य भावभेदनियतत्वादिति प्रतिपत्तव्यम् || ६ | सटिप्पणा ॥ स्वोपज्ञ वृत्तिः ॥ गाथा-६ ॥१९॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy