SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ - धर्मपरीक्षा ॥१८॥ सटिप्पणा || खोपज्ञ वृत्ति. ॥ | गाथा-६ ॥१८॥ - - निमित्त प्रवृत्तिमतां रौद्रानुबन्धानां स्याद्, अनाभोगेनापि शासनमालिन्यप्रवृत्तौ महामिथ्यात्वार्जनोपदेशात् । तदुक्तमष्टकप्रकरणे"यः शासनभ्य मालिन्ये-ऽनामीगेनापि वर्तते। स तन्मिथ्यात्वहेतुत्वा-दन्येषां प्राणिनां ध्रुवम् ॥१॥ बध्नात्यपि तदेवालं, परं संसारकारणम् । विपाकदारुणं घोरं, सर्वानर्थनिवन्धनम्।।२।।"(२३अ०)शासनमालिन्यनिमित्तप्रवत्तिश्च निवानामिव यथाछन्दादीनामप्य. विशिष्टेति कोऽयं पक्षपातः? यदुत निहवानामनन्तसंसारनियम एव, यथाछन्दादीनां त्वनियम इति। अनाभोगेनापि विषयविशेषद्रोहस्य विषमविपाकहेतुत्वाद् . अनियतोत्सूत्रभाषणस्य निःशङ्कताऽभि यञ्जकतया सुतरां तथाभावात् । यथा ह्याभोगेनोत्सूत्रभाषिणां रागद्वेषो. कांदतिसंक्लेशस्तथाऽनाभोगेनोत्सूत्रभाषिणामप्यप्रज्ञापनीयानां मोहोत्कर्षादयं भवन्ननिवारित एव । अत एव तेषां भावशुद्धिरप्यप्रमाणम्, मार्गाननुसारित्वात् ।तदुक्तमष्टकप्रकरणे-"भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियाऽत्यर्थ, न पुन: स्वाग्रहात्मिका ॥ १ ॥ रागो द्वेषश्च मोहश्च, भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो, हन्तोत्कर्षोऽस्य तत्त्वतः ॥२॥ तथोत्कृष्टे च सत्यसिन्, शुद्धिर्व शब्दमात्रकम् । स्वबुद्धिकल्पनाशिल्प-निर्मितं नार्थवद् भवेदं।।३॥(२२ अ०)इति" किं च-पार्थस्थादीनां नियतोत्सूत्रमप्यूद्युक्तविहारिणामपवादलक्षणं द्वितीयबालतानियामकमस्त्येव । यदाचारसूत्रम्-"सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बितिया मन्दस्स बालया । णिअट्टमाणा वेगे आयारगोयरमाइक्खंति नागभट्ठा दंसणलूसिणोत्ति " एतद वत्तिर्यथा- शीलमष्टादशशीलाङ्गसहस्रसंख्यम्, यदि वा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलं विद्यते येषां ते शीलवन्तः । तथोपशान्ताः , कषायोपशमाद् । अत्र शीलवद्वहणेनैव गतार्थत्वात | 'उपशान्ताः' इत्येद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थम् । सम्यक् ख्याप्यते प्रकाश्यतेऽनयेति संख्या-प्रज्ञा तया रीयमाणाः - -
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy