SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ * * धर्मपरीक्षा ॥१७॥ सटिप्पणा ॥ स्वोपन वृत्तिः ॥ गाथा-६ ॥१७॥ * [नियतोत्सूत्रनिमित्ता संसारानन्तता न मत्रोक्ता अध्यवसायोऽनुगतो भिन्न एव कारणं तस्याः ॥६॥] णियउस्सुत्तत्ति। नियतोत्सूत्रं निमित्तं यस्यां सा तथा, संसारानन्तता न सूत्रोक्ता, नियतोत्सूत्रं विनापि मैथुनप्रति| सेवाद्युन्मार्गसमाचरण-तद्वन्दनादिनाऽप्यनन्तसंसाराजनेन व्यभिचारात्। न चोत्सूत्रभाषणजन्येऽनन्तसंसारार्जने नियतोत्सूत्रभाषणस्यैव । हेतुत्वान्न दोषः, तादृशकार्यकारणभावबोधकनियतमूत्रानुपलम्भाद्। 'उस्सुत्तभासगाणं,बोहीणासोअणंतसंसारो (उत्सूत्रभाषकाणां बोधिनाशोऽनन्तसंसारः!!) इत्यादिवचनानां सामान्यत एव कार्यकारणभावग्राहकत्वाद। उत्तरकालं तत्र नियतत्वाख्यो विशेषः कल्प्यते इति चेद्, नैतदेवम् , तथा सति यथाछन्दस्य कस्याप्यनन्तसंसारानुपपत्तिप्रसक्तेः, तस्य स्वदभिप्रायेणापरापरभावेन गृहीतयुक्तोत्सूत्रस्य नियतोसूत्रभाषित्वाभावात् । तथा च-"सवप्पवयणमारं, मूलं संसारदुक्खमुक्खम्स । समत्तं मइलिता, ते दुग्गइवड्या हुंति ॥१॥" (सर्वप्रवचनसारं मूलं संसारदुःखमोक्षस्य । सम्यक्त्वं मलिनयित्वा ते दुर्गतिवर्द्धका भवन्ति ॥१॥) इत्यादिभाष्यवचनविरोधः । अथ a यथाछन्दस्यापि यस्यानन्तसंसारार्जनं तस्य क्लिष्टाध्यवसायविशेषादेव, उन्मार्गपतितस्य निवस्य तु नियतोसूत्रभाषणादेवेति न दोष इति चेद् । न,एवं सत्यनियतहेतुकत्वप्रसङ्गान् । “अनियतहेतुकत्वं अहेतुकत्वं नाम" इति व्यक्तमाकरे । तथा च विप्रतिपन्न उन्मार्गस्थोऽनन्तसंसारी, नियतोत्सूत्रभाषित्वाद्, इत्यत्राप्रयोजकत्वम् । किं तर्हि अनन्तसमारतायामनुगतं नियामकमित्यत्राह-तस्याः संसारानन्ततायाः, कारणं भिन्न एवानुगतोऽध्यवसायस्तीव्रत्वसंज्ञितः, केवलिना निश्चीयमानोऽस्तीति गम्यम् । यस्य संग्रहादेशात्स्वातंत्र्येणैव तस्यामनुगतं हेतुत्वम्, व्यवहारादेशाच क्रियाविशेष सहकारित्वं घटकल्वं वा । शन्दमात्रानुगततीत्राध्यवसायसहकतायास्तत्पूर्विकाया वा पापक्रियाया अनन्तसंसारहेतुत्वव्यवहारात् । स च तीवाव्यवसाय आभोगवतामनाभोगवतां वा शासनमालिन्य * - - *** -
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy