SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 84 धर्मपरीक्षा % ॥१५॥ सटिप्पणा ॥ खोपज्ञ वृत्तिः ॥ गाथा-५ ॥१५॥ व्यवस्थादर्शनात्कथमेवमर्वाग्दृशा निर्णीयते यदुत मार्गपतितस्य यथाछन्दस्य कस्यचिदनाभोगादेवोत्सूत्रभाषणम्, तच्च नानन्तसंसारकारणम्, उन्मार्गपतितानां तु सर्वेषामाभोगवतामनाभोगवतां वा तदनन्तसंसारकारणमेव, तीर्थोच्छेदाभिप्रायमूलत्वादिति, साध्वाचारोच्छेदाभिप्रायस्य यथाछन्देऽप्यविशेषात् । अथ-"उम्मग्गमग्गसंप-द्विआण साहण गोअमा नृणं (१) । संसारो अ अणंतो, होइ य सम्मग्गणासीणं ।" [उन्मार्गमार्गसंपस्थितानां साधूनां गौतम? नूनम् (१) । संसारश्चानन्तो भवति सन्मार्गनाशिनाम् ॥] इति गच्छाचारप्रकीर्णकवचनबलादुन्मार्गपतितानां निहवानामनन्त एव संसारो ज्ञायते न तु यथाछन्दानामपि, अपरमार्गाश्रयणाभावादिति चेद । उन्मार्गपतितो निह्नव एवेति कथमुद्देश्यनिर्णयः ? साधुपदेन शाक्यादिव्यवच्छेदेऽपि यथाछन्दादिव्यवच्छेदस्य कतुमशक्यत्वात्, PIगुणभेदादिनेव क्रियादिविपर्यासमूलकदालम्बनप्ररूपणयाऽप्युन्मार्गभवनाविशेमाद । न हि 'मार्गपतित' इत्येतावता शिष्टाचारनाशको यथाछन्दादिरपि नोन्मार्गगामी । अथ यथाछन्दादीनामप्युन्मार्गगामित्वमिष्यते एव,न त्वनन्तसंसारनियमः, तन्नियमाभिधायकवचने ४ उन्मार्गमार्गसंप्रस्थितपदेन तीर्थोच्छेदाभिप्रायवत एव ग्रहणादिति चेद् । अहो किंचिदपूर्व युक्तिकौशलम् ! यदुक्तवचनबलात्तीर्थोच्छेदा-1 भिप्रायवतां निहवानामनन्तसंसारनियमसिद्धौ पदविशेषतात्पर्यग्रहः, तस्मिंश्च सति तत्सिद्धिरित्यन्योन्याश्रयदोषमापतन्तं न वीक्षसे ।। ४ संप्रदायादीडशोऽर्थो गृहीत इति न दोष, इति चेद् । न, संप्रदायादध्यवसायं प्रतीत्य निवानामपि संख्यातादिभेदभिन्नस्यैव संसारस्य सिद्धत्वाद्, उन्मार्गमार्गप्रस्थितानां तीवाध्यवसायानामेव ग्रहणे बाहुल्याभिप्रायेण वा व्याख्याने दोषाभावाद् । न चेदेवं तदा 'वयमेव सृष्टिस्थित्यादिकारिणः' इत्याधुसूत्रभाषिणोऽनवच्छिन्नमिथ्यात्वसन्तानपरमहेतोस्तीर्थोच्छेदाभिप्रायवतो बलभद्रजीवस्याप्यनन्तसंसारोत्पत्तिः प्रसज्येत । न चैतदशास्त्रीयं वचनम्,त्रिषष्टीयनेमिचरित्रेप्येवमुक्तत्वात् । तथाहि॥ प्रतिपद्य तथा रामो, जगाम भरतावनौ ।
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy