________________
धर्मपरीक्षा
॥२४६॥
सटिप्पणा
खोपत्र वृत्तिः ॥ गाथा-६७ ॥२४६॥
HिAMACHUS
तस्य साक्षात्कायस्पर्शप्रत्यवारम्भस्य, निमित्तस्य, इयमाचाराङ्गवृत्तिकृदुक्ता मर्यादा-अयोगिकेवल्यादिकारकसम्बन्धमात्रेणैव साक्षादारम्भस्य बाह्यस्य निमित्तस्य प्रस्तुता फलाफलविचारणा क्रियते, नतु कर्तृकार्यभावसम्बन्धेन जीवविराधनाविचारः क्रियत इति नोक्तानुपपत्तिरित्यर्थः । कर्ता पुनः प्राणातिपातस्य नियमात् प्रमत्त एव, शास्त्रीयव्यवहारेण प्रमादवत एव प्राणातिपातकत्वव्यवस्थितेः, ततो यदि कर्तृकार्यभावसम्बन्धेनैवात्र जीवविराधनाविचारः प्रस्तुतस्तदा पराभ्युपगमरीत्या केवलिन इवाऽप्रमत्तसंयतस्यापि निर्देशोऽप्रामाणिक इति सर्वमेव वृत्तिकृदुक्तं विशीर्येत । यदि चोपचारेणाप्रमत्तयतेरपि कथञ्चित्तत्कर्तृत्वमिष्यते, तदोपरिष्टादप्युपचारेणैतत्कल्पनं ग्रन्थकाराभिप्रायानुरोधादेव निराबाधमिति यदुच्यते परेण "सयोगिकेवली कदाचिजीवविराधकः सम्भवति, भवस्थकेवलित्वाद् अयोगिकेवलिवद्' इत्यत्र कदाचिजीवविराधकत्वं साध्यमयोगिकेवलिनि दृष्टान्ते नास्ति, तस्याकर्तृत्वात् । किश्च-अयोगिकेवलिदृष्टान्तदातुरयोगित्वकर्तृत्वयोविरोधापरिज्ञानमपि स्फुटमेवेत्यादि," तत्सर्वं ग्रन्थाभिप्रायापरिज्ञानविजृम्भितमिति मन्तव्यम्; न ह्येवमधिकृताचाराङ्गवृत्तिग्रन्थः कथमप्युपपादितो भवतीति ॥ ६७॥
नन्वयं ग्रन्थः प्रासङ्गिक एव । तथाहि-अयोगिकेवलिनि मशकादिघातस्तावन्मशकादिकर्तृक एव, तथा च कर्मबन्धोऽप्यध्यवसायानुगतो मशकादीनामेव भवति, एककर्तृकयोरेव कर्मबन्धोपादानकारणयोः परस्परं कार्यकारणभावसम्बन्धाद् न पुनर्भिन्नकर्तृकयोरपि, है| सांसारिकजीवकर्तृकैः पञ्चविधोपादानकारणैः सिद्धानामपि कर्मबन्धप्रसक्तेः। तस्मादन्वयव्यतिरेकाभ्यामनादिसिद्धकार्यकारणभावव्यवस्था
सिद्धयर्थमत्र च कर्मबन्धं प्रति विचित्रतेत्यादि प्रसङ्गतोऽभिहितम् । तत्रायोगिन्युपादानकारणाभावात् कर्मबन्धाभाव इति व्यतिरेकनियमः प्रदर्शितः, स चान्वयनियमस्य दाढर्थहेतुः, अन्यथा कर्मबन्धविचित्रताविचारेऽवन्धकस्यायोगिकेवलिनो भणनमनर्थकमेव सम्पद्येत,
AAAAAAA