SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२३४॥ | खोपड़ ASS भणिता । तस्मात्साक्षाजीवघातलंक्षण आरम्भो नान्तक्रियायाः प्रतिबन्धकः, तदभावेऽन्तक्रियाया अभणनात् , प्रत्युतान्निकापुत्राचार्य-1 सटिप्पणा गजसुकुमारादिदृष्टान्तेन सत्यामपि जीवविराधनायां केवलज्ञानान्तक्रिययोर्जायमानत्वात् कुतस्तत्प्रतिबन्धकत्वशङ्कापीति । अत्र सूत्रे एजनादिक्रियाजन्य आरम्भो न भणितः, किन्तु क्रियारम्भयोरेकाधिकरणे नियमो भणितः, स चैवं-यो यावत्कालं यत(एज)नादिक्रि-18| वृत्तिः॥ | यावान् तावत्कालं स आरम्भादिमानेव, एवं च सति कम्पनादिक्रिया व्याप्या, आरम्भश्च व्यापकः, तेन कम्पनादिक्रिया नारम्भहेतुः, गाथा-६१ किन्त्वारम्भः कम्पनादिक्रियाहेतुः । यथा 'यावत्कालं यो धूमवाँस्तावत्कालं स आर्दैन्धनप्रभववह्निमानेव' इत्यत्र धूमस्तथाभूतवहर्जनको ॥२३४॥ न भवति, भवति च तथाभूतो वहिधूमजनक इत्यन्तक्रियाप्रतिबन्धकारम्भव्याप्यत्वेन कम्पनादिक्रियाणामन्तक्रियाप्रतिवन्धकत्वं व्या| ख्येयम् , आरम्भशब्देन च योगा उच्यन्ते, जीवघातादिलक्षणारम्भादिजनकत्वेन कारणे कार्योपचारात् , शास्त्रसम्मतं च योगानामार-14 म्भत्वम् । तदुक्तं भगवतीवृत्ती-"ननु 'मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव' इति प्रसिद्धिः, इह तु आरम्भिक्यादयोऽभिहिता इति कथं न विरोधः? उच्यते-आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहः, योगानां तद्रूपत्वात् , शेषपदेषु च शेषबन्धहेतुपरिग्रहः प्रतीत एवेति ।” एतच्चायुक्तम् , आरम्भादिशब्दत्रयेण योगामिधानस्य दुर्घटत्वाद् , एजनादिक्रियातिरिक्तकायादिसध्रीचीनजीवव्यापाररूपयोगसद्भावे प्रमाणाभावाद् , योगानां योगनिरोधरूपान्तक्रियायां प्रतिबन्धकत्वाभावाच्च, नहि घटो घटनाशं प्रति प्रतिबन्धक इति । | तस्मादेजनादिरहितो नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वं-15 सरूपाऽन्तक्रिया भवतीति भगवतीवृत्तावेवाग्रे व्यतिरेकप्रदर्शनादेजनादीनामारम्भादिद्वाराऽन्तक्रियाविरोधित्वव्याख्यानमेव न्याय्यमिति । “यत्तु एवमपि यद्यारम्भादिशब्दैरुक्तप्रकारेणेहाव्याख्यातत्वात् साक्षाजीवघातोऽभिमतः, तहिं "जीवे णं भंते ! सया समिश्र
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy