________________
धर्मपरीक्षा ॥२३५॥
सटिप्पणा ॥स्वोपज्ञ वृतिः ॥ गाथा-६२ ॥२३५॥
USECREGACCUDAMAULI
एयइ' इत्यादिसामान्यसूत्रे सयोगिजीवः केवलिव्यतिरिक्त एव ग्राह्यः, अन्यथा "सत्तहिं ठाणेहिं केवलिं जाणेजा"-इत्यादि विशेषमूत्रविरोधेन सूत्राभिप्रायकल्पने मतिकल्पना महानर्थहेतुः-इत्यायुक्तं" तदुपहासपात्रम् , वृत्ति कृदभिप्रायोलङ्घनेन स्वस्यव मतिकल्पनाया | महानर्थहेतुत्वात् , 'सत्तहिं ठाणेहि' इत्यादिसूत्रस्य भिन्नविषयत्वेन प्रकृतसामान्यसूत्रावधिकविशेषसूत्रस्य केनापि ग्रन्थकारेणानुपदर्शितत्वाचेति ॥६१॥ स्यादियमाशङ्का-सकलसयोगिगतेजनादिक्रियासामान्यस्य न साक्षादारम्भादिनियतत्वम् , भगवतीवृत्तावेव मूक्ष्मपृथिव्यादीनां साक्षादा-मारम्भकन्वनिषेधाद् , एवं च भवत्यपि केवलिनः सदा साक्षादारम्भानभ्युपगमेन यदा तदभावस्तदा द्वाराभावादेजनादिक्रिययाऽप्रतिबन्धात्केवलज्ञानो पत्त्यनन्तरमेव केवलिनोऽन्तक्रियाप्रसङ्गः । यदि चान्तक्रियायां कदाचित् क्रियामात्रस्य कदा| चिच्च साक्षादारम्भस्यानियतविरोधित्वं स्वीक्रियते तदा नियतारम्भादिद्वारकत्वेन तद्विरोधित्वव्याख्यानविरोध इत्यत्राहआरंभाइजुअत्तं, तस्सत्तीए फुडेहि ण उ तेहि ॥ तस्सत्तीविगमे पुण, जोगणिरोहो अपडिबद्धो॥६॥
[आरम्भादियुतत्वं तच्छक्त्या स्फुटन तु तैः । तच्छक्तिविगमे पुनर्योगनिरोधोऽप्रतिबद्धः ॥ ६२ ॥ व्याख्या-आरम्भादियुनत्वं' आरम्भादिनियतत्वं 'क्रियाणाम्' इति प्राक्तनमिहानुषज्यते; 'तच्छक्त्या' आरम्भादिशक्त्या, तुरेवकारार्थों भिन्नक्रमश्च, नतु तैः स्फुटैः-स्फुटैरेव तैरारम्भादिभिनेत्यर्थः । अयं भाव:- स्थूलकालावच्छेदेन तावदेतत्सूत्रोक्त एजनादिक्रियाणां साक्षादारम्भनियमो बादरयोगस्य नासम्भवी, इत्थम्भृतनियमस्यापि सूत्रेऽभिधानाद् , अत एव यस्मिन् समयें कायिकी क्रिया तस्मिन् पारितापनिकी प्राणातिपातिकी च प्रज्ञापनोक्तेशनियमेनैव वृत्तिकृतोपपादिता । तथाहि-"समयग्रहणेन चेह सामान्यः कालो गृह्यते, न पुनः परमनिरुद्धो यथोक्तखरूपो नैश्चयिका समयः, परितापनस्य प्राणातिपातस्य वा बाणादिक्षेपजन्यतया