SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२३०॥ आपागापसिद्धी, भणिया बत्थच्छेय अहिगारे ॥ ता तस्सं (हिं सं ) मइत्रयणं, पण्णत्तीए ण अपण ॥ ६०॥ [ आपादकाऽप्रसिद्धिर्न च भणिता वस्त्रच्छेदाधिकारे ॥ ततः तत्संमतिवचनं प्रज्ञप्तेर्नान्यार्थम् ॥ ६० ॥ ] 'आपायगापसिद्धि'त्ति । आपादकस्य हिंसान्वितयोगस्याऽप्रसिद्धिः, न च भणिता वस्त्रच्छेदाधिकारे; किं भगवतीवचनादारम्भस्य क्रियाविनाभावित्वमङ्गीकृत्यापि प्रतिबन्धैव पूर्वपक्षिणा दूषणं दत्तम् । तथाहि - "आरंभमिट्ठो जह (इ) आसवाय, आता तु साहू || णो (मा) फंद वारेहि व छिज्जमाणं, पइण्णहाणी व अतोऽण्णहा ते” ||३९२७|| 'आरम्भमिट्ठो'ति । कालाक्षणिकः । हे नोदक ! यथाssरम्भस्तव, आस्त्रवाय कर्मोपादानाय, इष्टोऽभिमतः, गुप्तिश्च तत्परिहाररूपा, श्रेय से कर्मानुपादानायाभिप्रेता, तथा च सति हे साधो ! मा स्पन्द, मा वा वस्त्र छिद्यमानं वारय । किमुक्तं भवति यदि वस्त्रच्छेदनमारम्भतया भवता कर्मबन्धनिबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनात्मिका चेष्टा क्रियते, यो वा तत्प्रतिषेधको ध्वनिरुच्चा . तावप्यारम्भतया भवता न कर्त्तव्यौ, अनो मदुक्तो (क्तादु) पदेशादन्यथा चेत् करोषि ततस्ते प्रतिज्ञाहानिः - खवचनविरोधलक्षणं दूषण मापद्यत इत्यर्थः अथ ब्रुवीथा-योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वान्निर्दोष इति ? । अत्रोच्यते"अदोसवं ते जइ एस सद्दो, अष्णोवि कम्हा ण भवे अदोसो | अहिच्छया तुज्झ सदोस एक्को, एवं सती कस्स भवेण सिद्धी ||३९२८ ||" यद्येष त्वदीयः शब्दोऽदोषवान्, ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् तस्यापि प्रमाणातिरिक्तपरिभोगविभूषादिदोषपरिहारहेतुत्वात् । अथेच्छ्या स्वाभिप्रायेण तवैको वस्त्रच्छेदनशब्दः, सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न खपक्षसिद्धिर्भवेत् - सर्वस्यापि वा गाढवचन (वागाडम्बर) मात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः । ततश्चास्माभिरप्येवं सटिप्पणा | खोपड़ वृचिः ॥ गाथा- ६० ॥२३०॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy