________________
धर्मपरीक्षा
॥ १२॥
स एकं पात्रं गृह्णीयाद्” इति । तथा पट्टएत्ति । य एव चोलपट्टकः स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियताम्, किं पृथगुत्तरपट्टग्रहेण । तथा पडलाई चोलत्ति । पटलानि किमिति पृथग् धियन्ते ?, चोलपट्टक एक भिक्षार्थ हिण्डमानेन द्विगुणत्रिगुणो वा कृत्वा पटलस्थाने वा निवेश्यताम् । उण्णादसियत्ति । रजोहरणस्य दशाः किमित्यूर्णमय्यः क्रियन्ते, क्षौमिकाः क्रियन्ताम् ता पूर्णमयी यो मुदुतरा भवन्ति । पडिलेहणापोत्तति । प्रतिलेखनावेलायामेकं पोतं प्रस्तार्य तस्योपरि समस्तव प्रत्युपेक्षणां कृत्वा तदनन्तरमुपाश्रयाद् बहिः प्रत्युपेक्षणीयम्, एवं हि महती जीवदया कृता भवतीति ॥२॥ दंतच्छिन्नमिति । हस्तगताः पादगता वा नखाः प्रवृद्धा दन्तैश्छेत्तव्याः न नखरदनेन । नखरदनं हि ध्रियमाणमधिकरणं भवति । तथा अलित्तंति । पात्रमलिप्तं कर्तव्यम्, लेपे बहुदोषसंभवान्न पात्रं लेपनीयमिति भावः । हरियट्ठियत्ति । हरितप्रतिष्ठितं भक्तपानादि डगलादि च ग्राह्यम्, तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति । पमज्जणा य तिस्सति । यदि छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो बहिरच्छन्ने क्रियताम्, दयापरिणामाविशेषात् । ईदृशी यथाछन्दस्य प्ररूपणा चरणेषु, गतिषु चानुपातिन्यननुपातिनीं च भवति ॥ ३ ॥ अनुपातिन्यननुपातिन्योः खरूपमाह -- अणुवाइति । यद् भाषमाणः स यथाछन्दो ज्ञायते, यथा खु निश्चितं युक्तिपतितं युक्तिसङ्गमेव भाषते तदनुपातिप्ररूपणम् । यथा-यैव मुखपोतिका सैव प्रतिलेखनिकेत्यादि । यत्पुनर्भाष्यमाणं सूत्रापेतं प्रतिभासते तद्भवत्यननुपाति । यथा चोलपट्टः पटलानि क्रियन्तामिति, षट्पदिकापतन संभवेन सूत्रयुक्तिबाधात् । अथवा सर्वाण्येव पदान्यगीतार्थप्रतिभासापेक्षयाऽनुपातीनि, गीतार्थप्रतिभासापेक्षया त्वननुपातीनीति ॥ ४ ॥ इदं चान्यत्तत्प्ररूपणम् - सागारियात्त । सागरिकः शय्यातरस्तद्विषये ब्रूते - शय्यातरपिण्डग्रहणे नास्ति दोषः, प्रत्युत शय्यातरस्य महालाभ इति । आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो
सटिप्पणा ॥ खोपज्ञ वृत्तिः ॥
गाथा - ५
॥१२॥