SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ ११ ॥ T भुंजंति । इय चरणवितथवादी, इत्तो वुच्छं गई तु ॥ ८ ॥ खेत्तं गओ अडविं, इक्को संचिक्खए तहिं चैव । तित्थयरो पुण पियरो, खेतं पुण भावओ सिद्धित्ति ॥ ९ ॥ ( यथाछन्दस्य प्ररूपणा उत्सूत्रा द्विविधा भवति ज्ञातव्या । चरणेषु गतिषु या तत्र चरणे इयं | भवति ॥ १ ॥ प्रतिलेखनी - मुखपोतिका रजोहरण- निषेधा, पात्रमात्र के पट्टे । पटलानि चोल (पट्टः) ऊर्णादशिका प्रतिलेखनापोतं ॥२॥ | दन्तच्छिन्नमलित हरितस्थितं प्रमार्जना च छन्नस्य | अनुपात्यननुपातिप्ररूपणं चरणे गतिष्वपि ||३|| अनुपातीति ज्ञायते युक्तिपतितं खलु भाषते एषः । यत्पुनः सूत्रापेतं तद् भवति अननुपातीति | ४ || सागारिकादिपर्यङ्कनिषद्यासेवना च गृहिपात्रे । निर्ग्रन्थीस्थानादि प्रतिषेधो मासकल्पस्य || ५ || चारे वैराज्ये वा प्रथमसमवसरणे तथा नित्येषु । शून्ये अकल्पिके चाज्ञातोञ्छे च संभोगे ॥ ६ ॥ किंवाऽकल्पिकेन गृहीतं प्रासुकमपि भवति त्वभोज्यम् । अज्ञातोञ्छं को वा भवति गुणो कल्पिकेन गृहिते ॥ ७ ॥ पञ्चमहाव्रतधारिणः श्रमणाः सर्वेऽपि किं न भुञ्जते ? । इति चरणवितथवादी इतो वक्ष्ये गतिषु तु || ८ || क्षेत्रं गतोऽटवीमेकः संतिष्ठते तत्रैव । तीर्थंकरः पुनः पिता क्षेत्रं पुनः भावतः सिद्धिरिति ॥ ९ ॥ ) एतासां गाथानामयं संक्षेपार्थ. - अहछंदस्मत्ति । यथाछन्दस्य प्ररूपणा उत्सूत्रा - मूत्रादुत्तीर्णा द्विविधा भवति ज्ञातव्या । तद्यथा चरणेषु चरणविषया, गतिषु गतिविषया ॥ तत्र या चरणे चरणविषया सा इयं वक्ष्यमाणां भवति ॥ १ ॥ तामेवाह - पडिलेहणित्ति | मुखपोतिका मुखवत्रिका सैव प्रतिलेखनी पात्रप्रत्युपेक्षिका पात्र के सरिका, किं द्वयोः परिग्रहेण ? अतिरिक्तोपधिग्रहणदोषादेकयैव मुखपोतिकया कायभाजनोभयप्रत्युपेक्षणकार्यनिर्वाहेणापरवैफल्यात् । तथा रयहरणणिसिजत्ति । किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यम् ? एकैव निषद्यास्तु । पीयमत्तएति । यदेव पात्रं तदेव मात्रकं क्रियताम् मात्रकं वा पात्रं क्रियताम्, किं द्वयोः परिग्रहेण १ एकेनैवान्यकार्यनिष्पत्तेः । भणितं च - " यो भिक्षुस्तरुणो बलवान् सटिप्पणा ॥ खोपज्ञ वृत्तिः ॥ गाथा - ५ ॥ ११ ॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy