________________
धर्मपरीक्षा ॥२२॥
SEAR
| सटिप्पणा | ॥स्वोपज्ञ वृचिः ॥ गाथा-६५ ॥२२१॥
यतो जलगालनमपि जलशस्त्रमेव, तदुक्तमाचाराङ्गनिर्युक्तो-"उस्सिचण-गालण-धोअणे य उवगरण-कोस(मत्त)भंडे अ॥ बावरआउक्काए एयं तु समासओ सत्थं" ॥११३।। [उत्सेचन-गालन-धावनं चोपकरण-कोशभाण्डं च । बादराप्काये एतत्तु समासतः शस्त्रम् ॥] ति अत्र गालनं 'धनमसृणवस्त्रान्तेिन' इति वृत्तौ मम्पूर्य व्याख्यातम् । तच्च त्रिविधं त्रिविधेन निषिद्धमिति विधिमुखेन तदपदेशे निषिद्धस्यापवादतस्तथोपदेशाविरोधाद् , निषिद्धमपि हि क्वचित्कदाचित्कथञ्चिद्विहितमपि भवतीति । यत्तूक्तं द्रव्यहिंसाया अप्यनाभो*मवशादयतनाजन्यत्वेन निषिद्धन्वमेवेति तत्रायतनाजन्यहिंसायाः कटुकफलहेतुत्वात् , तन्न, आशयशुद्धेः प्रतिबन्धिकाया यतनातिरिक्ताया
असिद्धेः, तस्याश्चायतनया सह विरोधात् , स्थूलयतनायां स्थूलायतनायाः प्रतिबन्धकत्वेन सूक्ष्मायतनाकल्पने प्रमाणाभावाद् , अयतना| सत्त्वेअमत्तानामप्रमत्तताऽसिद्धेः । या च सूक्ष्मा विराधना द्वादशगुणस्थानपर्यन्तमालोचनाप्रायश्चित्तवीजमिष्यते सा न सूक्ष्मायतनारूपा, सूक्ष्माया अप्ययतनायाश्चारित्रदोषत्वेनोपशान्तक्षीणमोहयोर्यथाख्यातचारित्रिणोस्तदनुपपत्तेः; किन्त्वनाभोगलक्षणसूक्ष्मप्रमादजनितचेष्टाश्रवरूपा, अत एव द्वादशगुणस्थानपर्यन्तं तन्निमित्तालोचनाप्रायश्चित्तसम्भवः । तदुक्तं प्रवचनसारोद्धारवृत्तौ-"इयं चालोचना गमनागमनादिष्षवश्यंकर्तव्येषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तयतेद्रष्टव्या, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् , केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् । आह-यतीनामवश्यकर्त्तव्यानि गमनागमनादीनि तेषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्याप्रमत्तस्य किमालोचनया ? तामन्तरेणापि तस्य शुद्धत्वाद् , यथासूत्रं प्रवृत्तेः । सत्यमेतत् , केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुद्धयन्तीति तच्छुद्धिनिमित्तमालोचनेति । तथा व्यवहारदशमोद्देशकवृत्तावप्युक्तं-"निग्रन्थस्यालोचना-विवेकरूपे द्वे प्रायश्चित्ते, स्नातकस्यैको विवेक इति । तथाऽऽलोचना गुरोः पुरतः