SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२१७॥ सटिप्पणा स्वोपन वृत्तिः ॥ गाथा-५५ ॥२१७॥ कल्प्यतादिबोधकादर्थवादादपि विधिकल्पनमाद्रियते, इत्थं च 'पञ्चेन्द्रियववरोवणा वि कप्पियत्ति [ पञ्चेन्द्रियव्यपरोपणाऽपि कल्प्या' इति । ] निशीथचूर्णावुक्तं न पुनः ‘स हन्तव्य' इतीति यदुक्तं तत् ध्वनिभेदेनार्थपरावर्त्तमात्रम् । यच्च 'सव्वे पाणा' इत्यादिना विरो४ धोद्भावनं कृतं तत् 'न हन्तव्य' इत्यादिशब्दसादृश्यमात्रेणैव, किन्तु हिंसाविषयकोपदेशार्थमात्रेण स्यात् , तन्निराकरणं चैतत्सूत्रस्थाविधि कृतहिंसाविषयत्वेनैव हरिभद्रसूरिभिः कृतमिति नात्र पर्यनुयोगावकाशः। किञ्च सामान्यतः सर्वजीवपरितापनानिषेधेऽपि क्वचिदपवादतस्तदुपदेशो विधिमुखेनापि दृश्यते, यथा भगवत्यां-"तं छदेण अजो तुब्भे गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएह, धम्मिआए पडिसारणाए पडिसारेह, धम्मिएणं पडोआरेणं पडोआरेह; धम्मियाएहिं अद्वेहिं हेऊहिं पसिणेहि य णिप्पिट्ठपसिणवागरण करेह" । त्ति [तच्छन्देन आर्य! यूयं गोशालं मंखलिपुत्रं धार्मिकया प्रतिचोदनया प्रतिचोदयत, धार्मिकया प्रतिसारणया प्रतिसारयत, धार्मिकेण प्रत्यवतारेण प्रत्यवतारयत धार्मिकैरथर्हे तुभिः प्रश्नैश्च निष्पृष्टप्रश्नव्याकरणं कुरुतेति । एतद्धि गोशालस्य परितापजनकं वचनं | भगवतेय लाभं दृष्ट्वाऽऽज्ञप्तम् , न चोत्सर्गतः परपरितापजनकं वचनं साधूनां वक्तुं युज्यत इत्यवश्यमपवादविधिरुत्सर्गविधिवदङ्गीकतिव्यः । इत्थं च 'अवण्णवाई पडिहणेजति [अवर्णवादिनं प्रतिहन्यात् । ] दशाश्रुतस्कन्धचूर्णिवचनस्य यदन्यार्थपरिकल्पनं तद"युक्तमेव, मिथोविरुद्धं चेदं यदुतापवादविधिप्रतिषेधः, पञ्चेन्द्रियव्यापादनभयेन सति सामर्थ्य प्रवचनाहितानिवारणे संसारवृद्धिदुर्लभबोधिता चेति । इत्थं हि प्रवचनाहितनिवारणे निमित्ते पञ्चेन्द्रियव्यापादनस्य बलवदनिष्टाननुबन्धित्वबोधार्थमपवादविधिरवश्यं कल्पनीयः, अन्यथा सामान्यनिषेधजनितभयानिवृत्तरिति । यच्चाहितनिवारणे क्रियमाणे कदाचित्पश्चन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिपच्याशयस्य शुद्धवाजिनाराधकत्वं सुलभबोधिकत्वं चोक्तं तदविचारितरमणीयम् , यतनावतोऽपवादेऽपि प्रायश्चित्तानुपदेशात् । तदुक्तं बृहत्कल्पवृत्ती
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy