________________
धर्मपरीक्षा १२१५|
सटिप्पणा स्वोपज्ञ
COACCREACTERAC
गाथा-५५ ॥२१५॥
द्वैविध्यव्यवस्थानात् । तस्मात्तीर्थकृतामाज्ञोपदेशः कर्मक्षयनिमित्त प्रत्युपेक्षणेर्यासमित्यादिषु संयता यतनया प्रवत्तरन् नान्यथा, संसारवृद्धिहेतुत्वादित्येवंविधिनिषेधमुखाभ्यामेवावसातव्यो न पुनस्त्वमित्थं कुरु इत्यादिसाक्षादादेशमुखेनापि । न च यतनया नयुत्तारवत्तया द्रव्यपूजापि संयतानां भवत्विति शङ्कनीयम् , साधूनां त्रसस्थावरजीवरक्षायतनाधिकाराद् , नधुत्तारे 'एगं पायं जले किच्चा' [ एकं पादं जले कृत्वा ॥] इत्यादिविधिना तन्निर्वाहाद् , द्रव्यस्तवे च त्रसजीवरक्षार्थयतनावतां श्राद्धानामेवाधिकारात , सर्वारम्भपरिजिहीर्षापूर्वकपृथिव्यादियतनापरिणामे च तेषामपि चारित्र एवाधिकार इति तत्कारापणं च साधूनामुपदेशमुखेन युक्तम् , निश्चयतोऽनुज्ञाविषयत्वाद् , न स्वादेशमुखेनं पृथिवीदलादीनां तत्कारणानां व्यवहारतः सावद्यत्वात् , सोऽप्युपदेशोजिनपूजायतनाविषय एवेति सर्वत्र यतनायामेव भगवदाज्ञा, नतु क्वचिद् द्रव्यहिंसायामपीति । तत्र ब्रूमः-अनुज्ञा तावद्भगवतो विधिवचनरूपा नद्युत्ताराद्यविनाभाविन्यां जलजीवप्राणवियोग| रूपायां जलजीवविराधनायां न कथञ्चिदेव, तस्या उदासीनत्वात् । तदनुकूलव्यापाररूपायां तु तस्या नद्युत्तारादिव्यापाररूपायां साऽवजनीयैव उभयस्वभावस्यानैकान्तिकस्य निमित्तकारणस्य बुद्धिभेदेन पृथक्क मशक्यत्वाद् , यत एव च यतनाविशिष्टस्य नात्तारस्येष्टफलहेतुत्वं भणितम् । अत एव नैमित्तिकविधिरूपाया भगवदाज्ञाया बहुलाभाल्पव्ययद्रव्यहिंसायां व्यवहारतः पर्यवसानमुत्सर्गतः प्रतिषिद्धं हि केनचिनिमित्तैनव विधीयत इति तत इदमुच्यते "अप्पेण बहुं इच्छइ विसुद्धआलंबणो समणो।" [अल्पेन बहु इच्छति विशुद्धालम्बनः श्रमण इति ॥] निश्चयतस्तु नैकान्ततो वाह्य वस्तु विधीयते निषिध्यते वा, केवलं शुभभावो विधीयतेऽशुभभावस्तु निषिध्यते, अत एव | भावानुरोधेन बाह्य वस्तुनि विधिनिषेधकामचारः। तदुक्तं सङ्घदासगणिक्षमाश्रमणपूज्यपादैः-(वृ०कल्पभाष्ये) “ण य(वि) किंचि अणुण्णायं, पडिसिद्धं वावि जिणवरिंदेहिं । एसा तेसिं आणा, कजे सच्चण होअव्वं ॥३३३०॥ ति । [ नापि किश्चिदनुज्ञातं प्रतिषिद्धं
CUSACAUSA
KAKKARE