________________
ASC
धर्मपरीक्षा ॥२१४॥
| तानां द्रव्यतोऽपि हिंसा कर्मबन्धकारणम् , असत्यपि कृतप्रत्याख्यानभङ्गेनालोचनाविषयः। यदागमः-"से अ पाणाइवाए चउबिहे पण्णत्ते, तं०-दव्यओ खित्तओ कालओ भावओ"[सच प्राणातिपातश्चतुर्विधः प्रज्ञप्तः, तद्यथा-द्रव्यतः क्षेत्रतः कालओ भावतश्च ॥] इत्यादि सटिप्पणा प्रत्याख्यानं च सर्वविरतिसिद्धयर्थमेव, तस्या अपि द्रव्यत आश्रवरूपत्वात् , सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वात् , भाव- | ॥खोपड़ हिंसायाः कारणत्वाच; एतेन यत्र क्वापि धार्मिकानुष्ठाने सम्भावनयाप्यवयं भवति तदनुष्ठानविषयको जिनोपदेशो न भवति, तावन्मात्रस्याप्याश्रवस्योपदेशविषयत्वापत्त्या कृतसर्वसावधप्रत्याख्यानवतः प्रत्याख्यानभङ्गेन 'केवली यथा वादी तथा कर्ता न भवेद्' इत्येवं प्ररू-15
गाथा-५५
॥२१४॥ पणात्मकं पाशचन्द्रमतमप्युपेक्षितं द्रष्टव्यम् , जैनप्रवचने प्रागुक्तप्रकारेण तदंशे जिनोपदेशापत्तरेवानङ्गीकारात ; तस्मादयं भावः।। यद्वस्तुजातं चिकीर्षितकार्यस्य प्रतिकूलमननुकूलं वा भवेत्तदविनाभावसम्बन्धेन जायमानमप्यनुकूलकारणवदुपदेशविषयो न भवति । यथा नात्ताराद्युपदेशे जीवघातो यथा वा क्षुद्वेदनाद्युपशमनार्थाहारविधौ तिक्तमधुरादिरसास्वादः, परं यत्र चिकीर्षितकार्यस्यानुकूलकारणान्यपि व्यवहारतः सावधानि भवन्ति तद्विषया जिनानुज्ञा क्रियाकालेऽप्यादेशमुखेन न स्याद् , एवं व्यवहारतो भाषायाः सावद्यत्वप्रसक्तेः; किं त्विष्टफलोपदर्शनेन कल्प्यत्वाभिव्यजितोपदेशमुखेनैवावसातव्या। सा चानुज्ञा निश्चयतो निरबद्यैव, संसारप्रतनुकरणपूर्वकसानुबन्धिपुण्यप्रकृतिबन्धहेतुत्वात् । एतेन कुसुमादिभिर्जिनेन्द्रपूजामुपदिशता कुसुमादिजीवविराधनाप्युपदिष्टैव, पूजाविनाभावित्वेन ज्ञात्वैव पूजायामुपदिष्टत्वादिति वचनमपास्तम् , कुसुमादिजीवविराधनायाः पूजायाः कर्तुष्टश्चाप्रत्यक्षत्वेन पूजाविषयकपरिणामव्यवहाराहेतुत्वेन कल्पितकुसुमादीनामिव द्रव्यपूजासामय्यनन्तर्भूतत्वात् , उपदेशमन्तरेणापि जायमानत्वात् , पूजां कुर्वता त्यक्तुमशक्यत्वाच्च, अन्यथा कुसुमादीनामिव तस्या अपि भूयस्त्वमेव विशिष्टपूजाङ्गं वाच्यं स्याद्, न च कुसुमादिभूयस्त्वे तद्भ्यस्त्वमावश्यकम् , कुसुमादीनां सचित्ताचित्ततया
HAHERA