________________
धर्मपरीक्षा ॥२१३॥
सटिप्पणा ॥स्वोपज्ञ वृचिः ॥ गाथा-६० ॥२१३॥
HAIR555-5555
एव चरितार्थत्वाजलजीवविराधनानुज्ञा केवलिनः कलङ्क एव । न च नद्युत्तारस कारणत्वेन जलजीवविराधनाऽऽप्यापवादिकीति तत्र जिनोपदेशो भविष्यतीति शङ्कनीयम् , अचित्तजलनद्युत्तारस्याभावापच्या तस्या नद्युत्तारे कारणत्वाभावात् । तस्मान्नद्युत्तारस्य कारणं न जलजीवविराधना, किन्तु पादादिक्रियैवेति । एतेन 'जलं वस्त्रगलितमेव पेयम् नागलितम् , इत्युपदिशता केवलिना जले जीवविराधना सचित्तजलपानं चोपदिष्टं भविष्यतीति शङ्कापि परास्ता । यतः "सविशेषणे.” इत्यादिना न्यायेन तत्र जलगलनमेवोपदिष्टम् , तच त्रसजीवरक्षार्थमिति । न च केवलिना जीवघातादिकं साक्षादनुन्नातमिति न ब्रूमः, विहारादिकमनुजानता तदविनाभावेन जायमानमनुज्ञात| मित्यस्यापि वचनस्थावकाशः, एवं सति गजसुकुमालश्मशानकायोत्सर्गमनुजानतःश्रीनेमिनाथस्य तदविनाभावितदीयशिरःप्रज्वालनस्याप्यनुज्ञापत्तेः । न च नद्युत्तारे जलजीवविराधना यतनया कर्त्तव्येति जिनोपदेशो भविष्यतीत्यपि सम्भावनीयम् , यतनाविराधनयोः परस्परं विरोधाद् , यतना हि जीवरक्षाहेतुरयतना च जीवघातहेतुरिति । तस्माजीवविराधना नियमादयतनाजन्यैव, अयतना चान्ततो जीवघातवदनाभोगजन्याशक्यपरिहारेणैव, जीवरक्षा च यतनाजन्यवेत्यनादिसिद्धो नियमो मन्तव्यः । अत एव छद्मस्थसंयतानामुपशान्तवीतरागपर्यन्तानां यतनया प्रवर्तमानानामपि या विराधना सा नियमादनाभोगवशेनायतनाजन्यैव, परमप्रमत्तसंयतानां नातिचारहेतुरपि, आशयस्य शुद्धत्वात् । एतच्च सम्भावनयाप्यात्मकृतत्वेनाज्ञातायां छद्मस्थसाक्षात्कारगम्यजीवविराधनायामवसातव्यम् , ज्ञातायां चयायश्चित्तप्रतिपित्सोरेव, अन्यथा तु निःशूकतया संयमापगमः प्रतीत एव । न चाप्रमत्तानामयतना न भविष्यतीति शङ्कनीयम् , अनाभोगनन्यायतनायाश्छद्मस्थमात्रस्य सत्त्वेनाप्रमत्तताया अनावाधकत्वात् , तेन संयतानां सर्वत्राप्यनाभोगजन्याशक्यपरिहारेण जायमाने जीवघातमृषाभाषणायंशे जिनोपदेशो न भवत्येव, तथाभूताया अपि विराधनाया अयतनाजन्यत्वेन निषिद्धत्वाद् , अत एव संय
BUSHUSHUSHUSHUSHUSIKU CHAS*