SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२१२॥ SHISHER-PRE जिनोपदेशो ज्ञानाद्यर्थमपलादपदप्रतिषेवणेऽप्यनादिसिद्धकल्प्यत्वादिलक्षणवस्तुस्वरूपाववोधको जिनोपदेशो भवति । यथा साध्व्या उपसर्गकरिमधिकृत्य "पंचिंदियववरोवणा कप्पि"त्ति [पञ्चेन्द्रियव्यपरोपणा कल्प्या इति ॥] निशीथचूर्णावुक्तं पुनः स हन्तव्य इति सटिप्पणा विधिमुखेन जिनोपदेशो भवति; "सव्वे पाणा सवे भूआ सव्वे जीवा सव्वे सत्ता ण हन्तवा" [सर्वे प्राणः सर्वे भृताः सर्वे जीवाः सर्वे ॥ खोपक्ष चिः ॥ सत्त्वा न हन्तन्याः ॥] इत्याद्यागमेन विरोधप्रसङ्गात् । यच्च दशाश्रुतस्कन्धचूर्णी- "अवण्णवाइं पडिहणेज"त्ति [ अवर्णवादिनं * गाथा-५५ प्रतिहन्यात् । ] भणितं तदाचार्यशिष्याणां परवादनिराकरणे सामर्थ्य दर्शितम् । यथा-"मिच्छदिट्ठीसु पडिहएसु सम्मत्तं थिरं होई". | ॥२१२॥ त्ति [ मिथ्यादृष्टिषु प्रतिहतेषु सम्यक्त्वं स्थिरं भवति । ] श्रीसूत्रकृदङ्गचूर्णौ भणितम् । अत एव "साहूणं चेइआण य” [ साधूनां चैत्यानां च ।] इत्यादौ सर्वबलेनेति स्वप्राणव्यपरोपणं यावदित्येवं भणितम् , न पुनर्जिनप्रवचनाहितकर्ता 'हन्तव्य' इति, जैनानां तथाभाषाया वस्तुमप्यनुचितत्वात् । यद्यपि सर्वबलेन निवारणे पञ्चेन्द्रियव्यापादनं कादाचित्कं भवत्यपि, तथापि 'स व्यापादनीयो व्यापाद्यतां च' इत्यादिरूपेण मनोव्यापारवानपि केवली न भवति, तथाभूतस्यापि मनोव्यापारस्य सावद्यत्वेन प्रत्याख्यातत्वाद् । न चापवादिकस्तथाव्यापारः सावद्यो न भविष्यतीति शङ्कनीयम् , यतोऽपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवति, कथं तर्हि सों त्कृष्टनियताप्रमत्तस्य केवलिनोऽपीति !, परं पञ्चेन्द्रियव्यापादनभयेन यदि सति सामर्थ्य प्रवचनाहितं न निवारयति, तर्हि संसारवृद्धिदुर्लभबोधिता चेत्यादि श्रीकालिकाचार्यकथादो भणितम् । अहितनिवारणे च क्रियमाणे कदाचित्पश्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिपत्त्याशयस्य शुद्धत्वाजिनाज्ञाऽऽराधकः सुलभबोधिश्चेत्यादिरूपेण वस्तुस्वरूपावबोधको जिनोपदेशो भवतीति तात्पर्यम् । एवं जिनो. पदेशेन वस्तुस्वरूपमवगम्य स्वत एव यथौचित्येन प्रवृत्तिनिवृत्तिभ्यां जिनाज्ञाराधको भवतीति जिनोपदेशस्य कल्प्याकल्प्यतावबोध
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy