SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ दीक्षां जिघृक्षताऽपि विज्ञप्तो भगवान् 'जहासुहं' इत्येवोक्तवान् न पुनस्त्वं गृहाणेत्यादि । यत्तु क्रियाकालेऽभ्यर्थितो भगवानादेशमुखेधर्मपरीक्षा राक्षानाप्यनुज्ञां ददाति, तत्रानुनायाः फलवत्वेन भाषाया निरवद्यत्वात् । नापि द्वितीयः, यतः कल्प्यता नद्युत्तारस्येष्टफलहेतुत्वेनैव स्यात् , सटिप्पणा ॥२१॥ ॥स्वोपच इष्टफलं सहेतुत्वं च नधुत्तारस्य यतनाविशिष्टस्यैव भणितम् , अयतनाविशिष्टस्य तु तस्य प्रतिषेध एवेत्ययतनाजन्यजीवविराधनयव नधु वृतिः ॥ दत्तारोऽप्यनिष्टफलहेतुत्वेनाकल्प्यो भणित इति जलजीवविराधनाविशिष्टो नद्युत्तारः केवलिनाऽनुज्ञात इति वक्तुमप्यकल्प्यम् । न च यत- दगाथा-५५ नया नदीमुत्तरतः साधोरनाभोगजन्याशक्यपरिहारेण या जलजीवविराधना साऽनुज्ञातेत्युच्यत इति वाच्यम् , तस्यामनुज्ञाया अनपेक्ष- ॥२१॥ णानिष्फलत्वाद् , ज्ञातेऽपि प्रायश्चित्तानुपपत्तिप्रसक्तेश्च, जिनाज्ञया कृतत्वात् । एवमन्यत्रापि कल्प्यताऽकल्प्यता च फलद्वारा साक्षाद्वोक्ताऽवसातव्या; परं सर्वत्रापि वस्तुस्वरूपनिरूपणोपदेशेन न पुनः क्वाप्यादेशेनापि । अयं भावः-जिनोपदेशो हि सम्यग्दृशां वस्तुस्वरूपपरिज्ञानार्थमेव भवति । तत्र वस्तुनः स्वरूपं हेयत्वज्ञेयत्वोपादेयत्वभेदेन त्रिधा । तत्र किश्चिद्वस्तु जीवघाताद्याश्रवभूतं हेयम् , दुर्गतिहेतुत्वात् । किञ्चिच्च जीवरक्षादि संवररूपमुपादेयम् , सुगतिहेतुत्वात् , किञ्चिच्च स्वर्गनरकादिकं ज्ञेयमेव, उभयस्वभावविकलत्वात् । यत्तु ज्ञातं सर्वमपि वस्तु सुगतिहेतुत्तत्र "सविशेषणे०" इत्यादिन्यायेन ज्ञानस्यैव प्राधान्यम् , तच्चोपादेयान्तर्भूतमवसातव्यम् । एवं च 'किञ्चिदेकमेव वस्तु विशेषणाद्यपेथया त्रिप्रकारमपि भवति । यथा एकैव गमनक्रिया जीवघातादिहेतुत्वेनाऽयतनाविशिष्टा साधूनां हैयैव, हेयत्वेन चाकल्प्येव तथा सैव क्रिया जीवरक्षादिहेतुत्वेन यतनाविशिष्टा साधूनामुपादेया, उपादेयत्वेन चकल्प्या; उभयविशेषणरहिता तु ज्ञेयैव । एवं धार्मिकानुष्ठानमात्रे वक्तव्ये "सविशेषणे०"-इत्यादिन्यायेन विधिनिषेधमुखेन यतनाऽयतनाविषयक एव जिनोपदेशः सम्यन्नः, तथा च जीवरक्षार्थ यतनोपादेयत्वेन कल्प्या, अयतना च जीवघातहेतुत्वेन हेयत्वेनाकल्प्येत्येवंविधिनिषेधमुखेन वस्तुस्वरूपावबोधको KAKKACEBOOK
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy