________________
धर्मपरीक्षा
॥२०५॥
भवत्येव ” इति लुम्पकीयपक्षद्वयदूषणार्थ ग्रन्थान्तरे । आद्यपक्षे साधूनां विहारा-ऽऽहार- नीहार- नधुत्तार- प्रतिक्रमण-प्रतिलेखनो-पाश्रय| प्रमार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे सम्पन्ने तत्रैव गलपादुका । द्वितीयेऽध्यक्षबाधा, नघुतारादिषु षण्णामपि जीवानां विराधनासम्भवात्, 'जत्थ जलं तत्थ वर्ण' [यत्र जलं तत्र वनम् |] इत्यागमवचनात् प्रतिक्रमणप्रतिलेखनादिषु च वायुजीवादीनामारम्भस्यागमप्रसिद्धत्वात्, एजना दिक्रियायुक्तस्यारम्भाद्यवश्यंभावात् । यदागमः - " जाव णं एस जीवे एअइ वेयइ चलइ फंदह इत्यादि यावदारंभे वट्टह" [ यावदेष जीव एजते व्येजते चलति स्पन्दते इत्यादि यावदारम्भे वर्तते । ] इत्यादि । किंच| अपवादे आभोगपूर्विकायामपि जीवविराधनायां सम्यक्त्वनाशादिदूषणं यत् त्वया नोच्यते, तत्र किं म्रियमाणानां जीवानां प्राणत्या - गाभावः, सद्गतिर्वा कारणं, द्वयमप्यागमबाधितमित्याशयशुद्धत्वमेव तत्र कारणं वाच्यमित्यशक्यपरिहार जीवविराधनायामप्याशयशुत्वादेव दोषाभावोsस्तु, किमनाभोगप्रपञ्श्चेन अत एव जीवघातेऽपि लोके द्रव्यहिंसावा भावहिंसायां शब्दादीनां रताविव। नैकान्तिककारणत्वात्, जीवरक्षाविषयकप्रयत्नेनैव साधोरन्तस्तत्त्वशुद्धेरदुष्टत्वं विशेषावश्यके उपपादितं नत्वनाभोगेनैव, तथा च तद्ग्रन्थः - "एवमहिंसाऽभावो, जीवघणंति ण य तं जओ भिहियं ॥ सत्थोवहयमजीवं, ण य जीवघणंति तो हिंसा ॥१७६२ । ।" नन्वेयं सति लोकस्यातीव पृथिव्यादिजीव घनत्वादहिंसाभावः, संयतैरप्यहिंसात्रतमित्थं निर्वाहयितुमशक्यमिति भावः, तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभिः -शस्त्रोपहतं पृथिव्यादिकमजीवं भवति । तद्जीवत्वे चाकृताकारितादिपरिभोगेन निर्वहत्येव यतीनां संयमः । न च ' जीव घनो लोकः' इत्येतावन्मात्रेणैव हिंसा सम्भवतीति ॥ १॥ आह ननु जीवाकुले लोकेऽवश्यमेव जीवघातः सम्भाव्यते (सम्भवी) जीवाँश्च घ्नन् कथं हिंसको न स्याद् ? इत्याह । “ ण य घायउति हिंसो, णाघातोति णिच्छियमहिंसो । ण विरल जीवमहिंसो,
सटिप्पणा
॥ खोपच चिः ॥
गाथा - ५४ ॥२०५॥