________________
धर्मपरीक्षा ॥२०४॥
454534343430AMOUS
व्याख्या-'जलजीवाणाभोग'त्ति नद्युत्तारे जलजीवानाभोगाद यदि तव न दोषः, तर्हि तस्य जलस्य, पानेऽपि स दोषो, मूलच्छेद्यो मूलप्रायश्चित्तविशोध्यो न भवेत्, नहि नदीमुत्तरतो जलजीवानाभोगस्तत्पाने च तदाभोग इति त्वया वक्तुं
सटिप्पणा
॥खोपड़ शक्यते, तदनाभोगस्य त्वया केवलज्ञाननिवर्तनीयत्वाभ्युपगमात् , तथा चोभयत्रैव मिथ्यादुष्कृतप्रायश्चित्तशोध्यमेव पापं स्यात् । ननु
वृचिः ॥ ज्ञात्वा जलपानेऽपि मूलच्छेद्यम् , तच्च श्रुतपरम्पराविरुद्धमित्याभोगविषयतापि जलजीवानामवश्यं वक्तव्या, प्रायश्चित्तभेदस्तु यतनाऽय
गाथा-५४ तनाविशेषादिति । यदि च ज्ञात्वा जलपाने न जलजीवाभोगात्प्रायश्चित्तविशेषः, किन्तु निःशूकत्वादित्युच्यते, तर्हि स्थूलत्रसाभोगो- का॥२०४॥ ऽप्युच्छियेत, तद्वधेऽपि निःशूकताविशेषादेव पातकविशेषोपपत्तेः। शास्त्रे त्वाभोगाऽनाभोगावकर्तव्यत्वज्ञानतदभावरूपावेवोक्तौ। तदुक्तं पञ्चाशकवृत्ती- "तत्राभोगोऽकर्तव्यमिति ज्ञानम् , अनाभोगस्त्वज्ञानमिति । तौ चोभयविराधनायामपि सम्भवत एव ॥" प्रतिपादितं च प्रायश्चित्तमाभोगानाभोगभेदात् पृथिव्यादिविराधनायामपि पृथगेवेति न किञ्चिदेतत् । एतेन यदुच्यते विनापवादं ज्ञात्वा जीवघातको यद्यसंयतो न भवेत् , तर्हि असंयतत्वमुच्छिन्नसंकथं भवेद्-इत्यादि परेण तदपास्तम् । अपवादमन्तरेणापि सामान्यसाधूनामपवादपदानधिकारिणां चोत्कृष्टचारित्रवतां प्रतिमाप्रतिपन्नजिनकल्पिकादीनां नात्तारादावाभोगपूर्वकजीवविराधनायाः साधितत्वात् । नद्युत्तारश्च जिनकल्पिकादीनामपि, 'जत्थत्थमेइसरो' (यत्रास्तमियात्सूर्यः) इत्यादि प्रवचनेषु दिवसतृतीयपौरुष्यतिक्रमे नद्याद्युत्तरतस्ते जलात्पदमात्रमपि बहिर्न निक्षिपन्ति. किन्तु तत्रैव तिष्ठन्ति-इत्यादिभणनेन प्रतीत एव । सोऽप्यापवादिकश्चेत , तर्हि विहाराऽऽहारादिक्रियास्वौत्सर्गिकीषु जीवविराधनया योगसमुत्थया जिनकल्पिकादीनामसंयतत्वप्रसक्तेर्वज्रलेपत्वमेव, तस्या योगावश्यंभावित्वस्य प्रवचनादेव, | निश्चयाद् , अङ्गीकृतं चैतत्परेणापि । यदुक्तं तेन-“यत्रानुष्ठाने आरम्भस्तजिनैः प्रतिषिद्धमेव, उत जिनोपदिष्टक्रियायामारम्भो न 2