________________
धर्मपरीक्षा ॥२०॥
सटिप्पणा
खोप
चिः ॥ ४ गाथा-५३
॥२.२॥
RECEMCHOOTORARMA
प्रमत्ताश्च आरम्भिप्रमत्ताः तेषाम् ,इतः पदार्थात्, चैत्यगृहलोचकरणादि,चैत्यगृहमहतो भगवतो बिम्बाश्रयः, लोचकरणं च केशोत्पाटनरूपम् , आदिशब्दात् तत्तदपवादपदाश्रयणेन तथा तथा प्रवचनदुष्टनिग्रहादिपरपीडाग्रहस्तेषां करणं, तत्करणमेव प्राग्निषिद्धहिंसादिकरणमेव प्राप्तम् । कुतः? इत्याशङ्कयाह-अनुषन्धतोऽनुगमात् , तथा तत्प्रकारायाः परपीडाया इत्येष चालनारूपो वाक्यार्थ इत्यर्थः॥ "अविहिकरणमि आणा-विराहणा दुट्टमेव एएसि । तो विहिणा जइअव्वं, ति महावक्कत्थरूवं तु" |८६७|| व्याख्या-अविधिकरणेऽनीतिविधाने चैत्यगृहलोचादेरर्थस्य,आज्ञाविराधनाद् भगवद्वचनविलोपनाद्, दुष्टमेव,एतेषां चैत्यगृहादीनां करणम् , तत्र चेयमाज्ञा"जिनभवनकारणविधिः, शुद्धा भूमिर्दलं च काष्ठादि। भृतकानतिसन्धान, स्वाशयवृद्धिः समासेन ॥१॥" लोचकर्मविधिस्तु-"धुवलोओ अजिणाणं, वासावासेसु होइ थेराण ॥तरुणाणं चउमासे, वुड्डाणं होइ छम्मासे ॥१॥” इत्यादि । [ध्रुवलोचश्च जिनानां वर्षावासेषु भवति स्थविराणाम् । तरुणानां चतुर्मास्यां वृद्धानां भवति षण्मास्याम्॥] तत्तस्माद् , विधिना जिनोपदेशेन यतितव्यम्-इत्येवं महावाक्यार्थस्य प्राक्चालितप्रत्यवस्थानरूपस्य, रूपं तु स्वभावः पुनः॥८६७|| महावाक्यार्थमेव गाथापूर्वार्धेनोपसंहरनैदम्पर्यमाह ॥ "एवं एसा अणुबंध-भावओ तत्तओ कया होइ॥अइदंपज्जं एवं, आणा धम्मम्मि सारोत्ति"॥८६८॥ एवं विधिना यत्ने क्रियमाणे, एषा हिंसा, अनुबन्ध भावतउत्तरोत्तरानुबन्धभाषान्मोक्षप्राप्तिपर्यवसानानुगमात्,तत्वतःपरमार्थतः कृता भवति,मोक्षसम्पाद्यजिनाज्ञाया उपरमाभावादिति ऐदम्पर्यमेतदत्र यदुताज्ञा धर्म सारः। इतिः परिसमाप्ताविति।" प्रतिबन्धकाभावत्वेनोक्तहिंसाया निर्जराहेतुत्वे चाभ्युपगम्यमाने केवलायास्तस्याः प्रतिबन्धकत्वाभावाजीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य शुद्धविशेप्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य तस्य शुद्धविशेषणरूपस्यापि सम्भवाजीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येतेत्यहो!
RECEIAG