________________
धर्मपरीक्षा
| सटिप्पणा
॥ स्वोपज्ञ वृत्तिः ॥ गाथा-५ ॥९॥
| भाषणमपि सूत्रोच्छेदाभिप्रायेणैव स्थाद् विरुद्धमार्गाश्रणस्येव सूत्रविरुद्धाश्रयणस्यापि मार्गोच्छेदकारणस्याविशेषाद, तथा च द्वयोरप्युन्मार्गः समान एव । संसारस्त्वनन्तस्तत्र भावविशेषाद्भजनीयः, अध्यवसायविशेष प्रतीत्य संख्यातासंख्यातानन्तभेदभिन्नस्य तस्याहेदाद्याशातनाकृतामप्यभिधानात् । तथा च महानिशीथसूत्रम्-"जेणं तित्थकरादीणं महतिं आसायणं कुजा, से गं अज्झवसायं पडुच्च जाव णं अणंतसंसारिअत्तणं लभिज्जत्ति " ॥ ( यस्तीर्थकरादीनां महतीमाशातनां कुर्यात्, स अध्यवसायं प्रतीत्य यावदनन्तसंसारिकत्वं लभेत II) इत्थं चोत्सूत्रभाषिणां नियमादनन्तः संसार इति नियमः परास्तः । किं च कालीदेवीप्रमुखाणां| षष्ठाङ्गे "अहाछंदा अहाछंदविहारिणी(उ)ति" ( यथाछन्दा यथाछन्दविहारिणी इति ॥) पाठेन यथाच्छन्दत्वभणनादुत्सूत्रभाषित्वं सिद्धम् । “उस्मुत्तमायरंतो, उस्सुत्तं चेव पण्णवेमाणो। एसो उ अहाछंदो, इच्छा छंदुत्ति एगट्ठा ॥१॥" ( उत्सूत्रमाचरन् उत्सुत्रं चैव प्रज्ञापयन् । एष तु यथाच्छन्द, इच्छा छन्द इत्येकार्थौ ।) इत्यावश्यकनियुक्तिवचनात् । तासां चैकावतारित्वं प्रसि| मिति नायं नियमो युक्तः। यत्तन्मार्गमाश्रितानामाभोगवतामनाभोगवतां नियमेनानन्तः संसारः, प्रतिसमयं तीर्थोच्छेदाभिप्रायेण |
विरुद्धमार्गाश्रयणस्येति-जिनप्रवचनप्रतिपक्षभूतकान्तमार्गाश्रयणस्य । मार्गोच्छेदकारणस्याविशेषादिति-मोक्षमार्गध्वंसनियतपूर्ववृत्तित्वभेदाभावात् तथा च भोक्षमार्गनाशकत्वाविशेषादिति भावः । इत्यनेति-अध्यवसायविशेषस्यैवानन्तसंसारहेतुस्वे सिद्धे सति । नायं नियमो युक्त इति-श्रीज्ञाताधर्मकथायांअहाळदेत्यादिना कालीदेवीप्रमुखाणां यथाछन्दत्वमुक्तं तेन च तेषामुत्सूत्रभाषित्वमपि सिद्धम्, यथाछन्दत्वस्योत्सूत्रभाषित्वब्याप्यत्वात् इत्येवं तासामुत्सूत्रभाषित्वे सिद्धेऽपि-तासामेकावतारित्वप्रसिद्धत्वाद् । प्रसिद्धत्वंतु-काली गं भंते! देवी ताओ देवलोगाओ अणंतरं उवट्टित्ता कहिं गच्छिहिति कहिं उववजिहिति ? गोयमा ? महाविदेहे वासे सिजिनहितित्ति ज्ञाताधर्मकथाद्वितीयश्रुतस्कन्धप्रथमवर्गप्रथमाध्ययनसूत्रेति भावः ॥ तस्माद् उत्सूत्रभाषिणां नियमादनन्तसंसार इति नियमो न युक्त इति भावः ।
अनवट