SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥८॥ 4% तिथुच्छेओ व्व मओ, सुत्तुच्छेओवि हंदि उम्मग्गो। संसारो अ अणंतो; भयणिज्जो तत्थ भाववसा ॥५॥18 तीर्थोच्छेद इव मता सूत्रोच्छेदोऽपि हंदि उन्मार्गः। संसारश्वानन्तो भजनीयस्तत्र भाववशात् ॥ ५॥] सटिप्पणा (वृ०) तित्थुच्छेओत्ति । तीर्थोच्छेद इव सूत्रोच्छेदोऽपि 'हंदि इत्युपदर्शने उन्मार्ग एव मतः । तथा चोन्मार्गपतितानामु- खोपज्ञ स्सूत्रभाषणं यदि तीर्थोच्छेदाभिप्रायेणैवेति भवतो मतं तदोत्सूत्राचरणप्ररूपणप्रवणानां व्यवहारतो मार्गपतितानां यथाछन्दादीनामु-सूत्र- मावृत्तिः ॥ | वर्तमानकालीनस्वकर्तव्यताप्रकारकज्ञानानुकूलव्यापारः । धर्मशास्त्र प्रयोजनादिभिरेवेति । आदिना सम्बन्धाधिकारिप्रभृतिपरिग्रहः, य एव प्रयोजनसम्बन्धा- गाथा-५ •धिकारिप्रभृतयो धर्मशास्त्रस्यागमस्य त एवास्य ग्रन्थस्थापि तत्प्रतिपादितविषयाणामेव प्रतिपादकत्वात् । आगमयुक्तिभ्याभिति, नन्वन्त्रागमेनैवेत्येव वक्तु मुचितं आगमेन बुक्स्यैवार्थस्य प्रतिपादित्वादिति चेन,आगमोक्तार्थस्य यस्तकेंणानुसंधानं कुरुते स एव धर्म जानाति न स्वन्य इति ॥ तथा चोक्तं "परीक्ष्य भिक्षवो ग्राह्य मदचो न तु गौरवात् ॥"अन्यैरपि भणित, “यस्तकेंणानुसन्धत्ते स धर्म वेद नेतर' इति तर्कानुसंधानं विना तात्पर्यस्यैव निश्चतुमशक्यत्वात्, इयं हीति-स्वकपोलकल्पना हि। धर्मवादेनेति-तत्त्वबुभुत्सोः कथारूपवादेन न तु जल्पवितण्डाभ्यां ताभ्यां च तत्वोपलम्भस्यासिद्धेः । सुनिश्चितमितिअस्यायमर्थ:-हे नाथ ये परीक्षका: स्वाभ्युपगमपरीक्षणविधौ दुर्विदग्धाः पण्डितं मन्या इति यावत्, माध्यस्थ्यमास्थाय-वयं मध्यस्था इत्यभिमानेन न तु वस्तुगमा सदसद्विषयकविप्रतिपत्तिविषयद्वयान्यतरस्वाभ्युगमहानिभयप्रयोजकदृष्ठिरागाभावरूपं माध्यस्थ्यं किन्तु पूर्वोक्तपक्षद्वयविषयकविप्रतिपत्तिविषययान्यतरनिर्धारणानुकूलच्यापाराभावरूपेऽवास्तविके तमारोप्य तमास्थाय स्वीकृत्य कीदृशाः समानुबन्धाः-समानोऽनुबन्धोभिप्रायो येषां ते, केषु मणौ चन्द्रकान्तादिरूपे काचे-काचाख्यप्रसिद्धद्रव्ये च,ते -तच्छब्दस्य पूर्वपरामर्थत्वेन पूर्वोक्ता जनाः, मत्सरिण:-मत्सरो गुणेषु दोषाविष्करणं असूया इति यावत्, स अस्यासीति-मस्सरी तस्य मत्सरिणो जनस्य, जातावेकवचनं, मुद्रा स्वभावं प्रकृतिमिति यावत्, नातिशेरते नातिकामन्ति इति सुनिश्चितम् ॥ न तु विप्रतिपत्तिविषयम् ॥ जैनाभासा इति जैनवदाभासन्ते दुष्टजना इति व्यवहारत इति-व्यवहारनयेन । यथाछन्दादीनामिति यथा छन्दोऽभिप्राय इच्छा तथैवाऽऽगमनिरपेक्षेण यो पर्तते अथवा यथा कथंचित् नागमपरतम्यतया छन्दोऽमिप्रायो बोधः प्रवचनार्थेषु यस्य स यथाछन्दः । भादिना-पार्श्वस्थादिपरिग्रहः । BC%
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy